पूर्वम्: ३।१।२
अनन्तरम्: ३।१।४
 
सूत्रम्
आद्युदात्तश्च॥ ३।१।३
काशिका-वृत्तिः
आद्युदात्तश् च ३।१।३

अयम् अप्यधिकारः परिभाषा वा। आद्युदात्तश्च स भवति। आद्युदात्तश्च स भवति यः प्रत्ययसंज्ञः। अनियतस्वरप्रत्ययप्रसङ्गे ऽनेकाक्षु च प्रत्ययेषु देशस्य अनियमे सति वचनम् इदम् आदेरुदात्तार्थम्। कर्तव्यम्। तैत्तिरीयम्।
न्यासः
आद्युदात्तश्च। , ३।१।३

"अनियतस्वरप्रत्ययप्रसङ्गे" इत्यादिना सूत्रारम्भस्य प्रयोजनं दर्शयति। अनियतोऽव्यवस्थितः स्वरो यस्य स तथा, स चासौ प्रत्ययश्चेति कर्मधारयः, तस्य प्रसङ्गशब्देन षष्ठीसमासः। अनियतस्वरो यः प्रत्ययस्तस्य प्रसङ्गे सति वचनमिदमादेरुदात्तार्थम्। "अनियतस्वरप्रसङ्गे" इति क्वचित्पाठः। तत्रानियतशब्दस्य स्वरशब्देन विशेषमसमासं कृत्वा प्रसङ्गशब्देन षष्ठीसमासः। अनियतानामुदात्तादीनां स्वराणां प्रसङ्गे सत्यादेरुदात्तार्थ वचनम्। "अनेकाक्षु च" इत्यादि। अनेकेऽचो येषां तेऽनेकाचः। तेष्वनेकाक्षु प्रत्ययेषु देशस्यानियमे सति वचनमादेरुदात्तार्थम्-- आदेरेवोदात्तत्वं यथा स्यात्, मध्येऽन्ते च मा भूदिति। ये ह्रेकाचः प्रत्ययास्तत्र देशस्याभावादसत्यप्यादिग्रहणे देश्यानियमो न सम्भवति, अतोऽनेकाक्षु चेत्युक्तम्। अनेकाचां ह्रसत्यादिग्रह आदिमध्यान्तानामनियमेन स्वरः प्रसज्येतनेकाचः प्रत्ययादेर्यद्याद्युदात्तार्थवचनं नार्थं एतेन; यस्मादादेरनुदात्तादीनां मध्यान्तयोश्चोदात्तस्य प्रसङ्ग एव नास्ति। तथा हि-- यमनुदात्तमिच्छति, करोति तत्र पकारमनुबन्धम्, आह च-- "अनुदात्तौ सुप्पितौ" ३।१।४ इति; स्वरितमपि यमिच्छति, करोति तत्र तकारमनुबन्धम्, आह च-- "तित् स्वरितम्" ६।१।१७९ इति; एकश्रुतिं यमिच्छति तत्रैकश्रुतिग्रहणं करोति, आह च-- "एकश्रुति दूरात्सम्बुद्धौ" १।२।३३ इति; अन्तोदात्तमपि यमिच्छति करोति तत्र चकारमनुबन्धम्, आह च-- "चितोन्त उदात्तो रित" (का।६।१।१६३) इति; मध्योदात्तमपि यमिच्छति, करोति तत्र रेफमनुबन्धम्, आह-- "उपोत्तमं रिति" ६।१।२११ इति; य इदानीमतोऽन्यः प्रत्ययः सोऽन्तरेणापि वचनमाद्युदात्त एव भविष्यति? नैतदस्ति; येषामेव हि स्वरो नियम्यते त एव नियतस्वराः स्युः, यस्त्वनियतस्वरः प्रत्ययस्तस्यानियमेनैव स्वरः प्रसज्येत-- कदाचिदुदात्तः कदाचित् स्वरान्तरम्। उदात्तोऽपि भवन् कदाचिदादौ, कदाचिन्मध्ये, कदाचिदन्ते स्यात्। तस्मात् कत्र्तव्यमेतत्॥