पूर्वम्: ३।१।५३
अनन्तरम्: ३।१।५५
 
सूत्रम्
आत्मनेपदेष्वन्यतरस्याम्॥ ३।१।५४
काशिका-वृत्तिः
आत्मनेपदेष्वन्यतरस्याम् ३।१।५४

पूर्वेण प्राप्ते विभषा आरभ्यते। लिपिसिचिह्व आत्मनेपदेषु परतः च्लेः अङादेशो भवति अन्यतरस्याम्। स्वरितञितः कर्त्रभिप्राये क्रियाफले १।३।५२ इत्यात्मनेपदम्। अलिपत, अलिप्त। असिचत, असिक्त। अह्वत्, अह्वास्त।
लघु-सिद्धान्त-कौमुदी
आत्मनेपदेष्वन्यतरस्याम् ६५९, ३।१।५४

लिपिसिचिह्वः परस्य च्लेरङ् वा। असिचत, असिक्त॥ लिप उपदेहे॥ १०॥ उपदेहो वृद्धिः। लिम्पति, लिम्पते। लेप्ता। अलिपत्, अलिपत, अलिप्त॥इत्युभयपदिनः।कृती छेदने॥ ११॥ कृन्तति। चकर्त। कर्तिता। कर्तिष्यति, कर्त्स्यति। अकर्तीत्॥ खिद परिघाते॥ १२॥ खिन्दति। चिखेद। खेत्ता॥ पिश अवयवे॥ १३॥ पिंशति। पेशिता॥ ओव्रश्चू छेदने॥ १४॥ वृश्चति। वव्रश्च। वव्रश्चिथ, वव्रष्ठ। व्रश्चिता, व्रष्टा। व्रश्चिष्यति, व्रक्ष्यति। वृश्च्यात्। अव्रश्चीत्, अव्राक्षीत्॥ व्यच व्याजीकरणे॥ १५॥ विचति। विव्याच। विविचतुः। व्यचिता। व्यचिष्यति। विच्यात्। अव्याचीत्, अव्यचीत्। व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात्॥ उछि उञ्छे॥ १६॥ उञ्छति। ऽउञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्।’ इति यादवः॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॥ १७॥ ऋच्छति। ऋच्छत्यॄतामिति गुणः। द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट्। आनर्च्छ। आनर्च्छतुः। ऋच्छिता॥ उज्झ उत्सर्गे॥ १८॥ उज्झति॥ लुभ विमोहने॥ १९॥ लुभति॥
न्यासः
आत्मनेपदेष्वन्यतरस्याम्। , ३।१।५४

"स्वरितञिचः" इत्यात्मनेपदम् इति। लिपिसिच्योः स्वरितेत्त्वात्, ह्वयतेस्तु ञित्त्वात्। "अलिप्त, असिक्त" इति। "झलो झलि" ८।२।२६ इति सिचो लोपः, तस्या ८।२।२६ सिद्धत्वाल्लघूपधगुणः प्राप्तः, स "लिङ्सिचावात्मनेपदेषु" १।२।११ इति कित्त्वान्न भवति, "चोः कुः" ८।२।३० इति कुत्वम्॥
बाल-मनोरमा
आत्मनेपदेष्वन्यतरस्याम् २५०, ३।१।५४

आत्मनेपदेषु। आतो लोप इति अह्वा अ त् इति स्थिते "आतो लोप इटि चे"त्यालोप इत्यर्थः। अह्वदिति। अह्वताम्। अहवन्नित्यादि। अह्वतेति। लुङि आत्मनपदे अङि रूपम्। अह्वेताम् अह्वन्तेत्यादि। अङभावपक्षे त्वाह--अह्वास्तेति। अह्वासाताम् अह्वासत। इत्यादि। अह्वास्यत् अह्वास्यत। वद व्यक्तायां वाचीति। अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः। सेडयम्। अच्छ वदतीति। "अच्छे" त्यव्ययमाभिमुख्ये। अभिमुखं वदतीत्यर्थः। "अच्छ गत्यर्थवदेषु" इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः। अकिति लिटि द्वित्वे "लिट()भ्यासस्ये"ति संप्रसारणमिति मत्वा आह-- उवादेतिकिति लिटि तु "वचिस्वपियजादीना"मिति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह-- ऊदतुरिति। उवदिथेति। द्वित्वे अभ्यासस्य संप्रसारणमिति भावः। ऊदथुः ऊद। उवाद--उवद ऊदिव ऊदिम। वदितेति। तासि इट्। वदिष्यति। वदतु। अवदत्। वदेत्। उद्यादिति। आशीर्लिङि यासुटः कित्त्वात् "वचिस्वपी"ति संप्रसारणमिति भावः। "अवादी"दित्यत्र हलन्तलक्षमवृद्धेः "नेटी"ति निषेधेऽपि "अतो हलादे"रिति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथग्ग्रहणाद्वृद्धिरित्यभिप्रेत्याह-- वदव्रजेति वृद्धिरिति। एतदर्थमेव "वदव्रजहलन्तस्ये"त्यत्र वदधातोः पृथग्ग्रहणमिति भावः। टु ओ ()आईति। टुरोकारश्चेत्। ()आयतीति। शपि गुणाऽयादेशौ। लिटि तु अकिति णलादौ "लिट()भ्यासस्ये"त्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते, किति तु अतुसादौ द्वित्वात्प्राक् "वचिस्वपी"ति नित्यं संप्रसारणे प्राप्ते आह--

तत्त्व-बोधिनी
पदेष्वन्यतरस्याम् २२१, ३।१।५४

अच्छ वदतीति। "अच्छे"त्यस्य वदयोगे गतित्वाद्धातोः प्राक् प्रयोगः।