रुधिरावरणे, अस्मात् परस्य च्लेः कर्मक्र्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयम् एव। कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन।
कर्मवदित्यतिदेशे प्राप्तस्य चिणोऽयं प्रतिषेधः। "अरुद्ध" इति। "झलो झलि"
८।२।२ इति सिचो लोपः; तस्यासिद्धत्वाल्लघूपधगुणः प्राप्तः "लिङसिचावात्मनेपदेषु"
१।२।११ इति कित्त्वान्न भवति। पूर्ववद्()धत्वजश्त्वे॥