पूर्वम्: ३।१।७७
अनन्तरम्: ३।१।७९
 
प्रथमावृत्तिः

सूत्रम्॥ रुधादिभ्यः श्नम्॥ ३।१।७८

पदच्छेदः॥ रुधादिभ्यः ५।३ श्नम् १।१ सार्वधातुके ७।१ ६७ कर्तरि ७।१ ६८ धातोः ५।१ २२ प्रत्ययः १।१ परश्च १।१

समासः॥

रुध् आदिर्येषां ते रुधादयः, तेभ्यः, वहुव्रीहिः॥

अर्थः॥

रुधादिभ्यो धातुभ्यः श्नम् प्रत्ययो भवति कर्तृवाचिनि सार्वधातुके परतः॥

उदाहरणम्॥

रुणद्धि। भिनत्ति॥
काशिका-वृत्तिः
रुदादिभ्यः श्नम् ३।१।७८

रुधिरावरणे इत्येवम् आदिभ्यो धातुभ्यः श्नम् प्रत्ययो भवति। शपो ऽपवादः। मकारो देशविध्यर्थः। शकारः श्नान् नलोपः ६।४।२३ इति विशेषणार्थः। रुणद्धि। भिनत्ति।
लघु-सिद्धान्त-कौमुदी
रुधादिभ्यः श्नम् ६६९, ३।१।७८

शपोऽपवादः। रुणद्धि। श्नसोरल्लोपः। रुन्धः। रुन्धन्ति। रुणत्सि। रुन्धः। रुन्ध। रुणध्मि। रुन्ध्वः। रुन्ध्मः। रुन्धे। रुन्धाते। रुन्धते। रुन्त्से। रुन्धाथे। रुन्ध्वे। रुन्धे। रुन्ध्वहे। रुन्ध्महे। रुरोध, रुरुधे। रोद्धासि, रोद्धासे। रोत्स्यसि, रोत्स्यसे। रोत्स्यति, रोत्स्यते। रुणद्धु, रुन्धात्। रुन्धाम्। रुन्धन्तु। रुन्धि। रुणधानि। रुणधाव। रुणधाम। रुन्धाम्। रुन्धाताम्। रुन्धताम्। रुन्त्स्व। रुणधै। रुणधावहै। रुणधामहै। अरुणत्, अरुणद्। अरुन्धताम्। अरुन्धन्। अरुणः, अरुणत्, अरुणद्। अरुन्ध। अरुन्धाताम्। अरुन्धत। अरुन्धाः। रुन्ध्यात्। रुन्धीत। रुध्यात्, रुत्सीष्ट। अरुधत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरोत्स्यत॥ भिदिर् विदारणे॥ २॥ छिदिर् द्वैधीकरणे॥ ३॥ युजिर् योगे॥ ४॥ रिचिर् विरेचने॥ ५॥ रिणक्ति, रिङ्क्ते। रिरेच। रेक्ता रेक्ष्यति अरिणक्। अरिचत्, अरैक्षीत्, अरिक्त॥ विचिर् पृथग्भावे॥ ६॥ विनक्ति विङ्क्ते॥ क्षुदिर् संपेषणे॥ ७॥ क्षुणत्ति, क्षुन्ते। क्षोत्ता॥ अक्षुदत्, अक्षौत्सीत्, अक्षुत्त। उच्छृदिर् दीप्तिदेवनयोः॥ ८॥ छृणत्ति छृन्ते। चच्छर्द। सेऽसिचीति वेट्। चच्छृदिषे, चच्छृत्से। छर्दिता। छर्दिष्यति, छर्त्स्यति। अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट॥ उत्तृदिर् हिंसानादरयोः॥ ९॥ तृणत्ति, तृन्ते॥ कृती वेष्टने॥ १०॥ कृणत्ति॥ तृह हिसि हिंसायाम्॥ ११-१२॥
बाल-मनोरमा
रुधादिभ्यः श्नम् ३७३, ३।१।७८

रुधादिभ्यः श्नम्। कत्र्रर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययः स्यात्स्वार्थे इत्यर्थः। तदाह-शपोऽपवाद इति। श्नमि शमावितौ। मित्त्वस्य फलमाह - मित्त्वादन्त्यादचः पर इति। प्रत्ययत्वाच्छकारस्येत्संज्ञा। शकारनिर्देशस्तु "श्नसोरल्लोपः" "श्नान्नलोपः" इत्यत्र विशेषणाऽर्थः, नतु सार्वधातुकसंज्ञार्थः, फलाऽभावात्। न च "सार्वधातुकमपि" दिति ङित्त्वे गुणनिषेधः फलमिति शङ्()कयं, श्नमः पूर्वस्य इगन्तस्य अङ्गत्वाऽभावादेव गुणाऽप्रसक्तेः। ननु श्नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणद्धीति स्यादित्यत आह - नित्यत्वाद्गुणं बाधते इति। कृते अकृते च गुणे प्रवृत्तेः श्नम् नित्यः। तस्मिन् सति लघूपधत्वाऽभावान्न गुण इति भावः। रुणद्धीति। रुनध् ति इति स्थिते "झषस्तथो" रितधत्वे णत्वमिति भावः। रुनध् तस् इति स्थिते प्रक्रियां दर्शयति - श्नसोरल्लोप इति। क्ङिति सार्वधातुके तद्विधेरिति भावः। रुन्()ध् तस् इति स्थिते नस्य णत्वमाशङ्क्याह - मत्वस्यासिद्धत्वादिति। ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह - तस्यासिद्धत्वादिति। परसवर्णसंपन्नस्येत्यर्थः। नन्विह अल्लोपस्य "अचः परस्मि"न्निति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह - न पदान्तेति। रुन्द्ध इति। "झषस्तथो"रिति धः। रुन्धन्तीति। रुणत्सि रुन्द्धः रुन्द्ध। रुणध्मि रुन्ध्वः रुन्ध्मः। रुन्द्धे इति। रुन्धाते रुन्धते। रुन्त्से रुन्धाथे रुन्द्ध्वे। रुन्धे रुन्ध्वहे रुन्ध्महे। रुरोध। रुरोधिथ। अरुणदिति। लङि हल्ङ्यादिना तिपो लोपः। धस्य चत्र्वविल्पः। सिपि तु हल्ङ्यादिना लुप्ते "दश्चे"ति रुत्वविकल्पं मत्वाह -अरुणत् अरुण इति। रुन्ध्यात्। रुन्धीत। रुत्सीष्ट। इरित्त्वादङ्विकल्पं मत्वाह -- अरुधत् अरौत्सीदिति। अङभावे सिचि हलन्तलक्षणा वृद्धिः। लुङस्तह्राह - अरुद्धेति। "जलो झली"ति सिज्लोपः। भिनत्तीति। भिन्त्तः भिन्दन्ति। भिनत्सि भिन्त्त्थः भिन्त्थ। भिनद्मि भिन्द्वः भिन्द्मः। भिन्त्ते इति। भिन्दाते भिन्दते। भिन्त्से भिन्दाथे। भिन्द्ध्वे। भिन्दे भिन्द्वहे। बिभेद। बिभेदिथ। बिभिदिव। बिभिदे। बिभिदिषे। अभिनत् अभिन इति। "दश्चे" ति रुर्वेति भावः। अभिन्त्तेति। लङि तङि रूपम्।?लुङः परस्मैपदे आह - अभिदत् अभैत्सीदिति। इरित्त्वादङ्()वेति भावः। लुङि तङ्याह अभित्तेति। "झलो झली" ति सिज्लोपः। अभित्सातामित्यादि। उच्छृदिरिति। उकार इत्। "उदितो वे"ति क्त्वायामिड्विकल्पार्थः। ञि इन्धी दीप्तौ। ईदित्त्वं "()आईदितः" इत्येतदर्थम्। श्नमि कृते इन न् ध् ते इति स्थिते -

तत्त्व-बोधिनी
रुधादिभ्यः श्नम् ३२७, ३।१।७८

रुधादिभ्यः श्नम्। प्रत्ययत्वेऽपि मित्त्वादन्त्यादचः परः। प्रत्ययसंज्ञाफलं तु शस्येत्संज्ञा। शस्योच्चारमं तु "श्नसोरल्लोपः", "श्नान्नलोपः", इत्यत्र विशेषणार्थ न तु सार्वधातुकसंज्ञार्थं, फलाऽभावात्। न चाऽपित्सार्वधातुकस्य ङित्त्वे गुणनिषेधः फलमिति शङ्क्यम्िगन्तस्याङ्गत्वाऽभावात्। अरुण इति। सिपि " दश्चे"ति रुर्वा। एवमभिन इत्यत्रापि। उच्छृदिर्। उकारः क्त्वायामिड्विकल्पार्थः। छृत्वा। छर्दित्वा। इट्पक्षे "न क्त्वा से" डिति कित्त्वनिषेधाद्गुणः।