पूर्वम्: ३।१।८८
अनन्तरम्: ३।१।९०
 
सूत्रम्
न दुहस्नुनमां यक्चिणौ॥ ३।१।८९
काशिका-वृत्तिः
न दुहस्नुनमां यक्चिणौ ३।१।८९

दुह सनु नम् इत् येतेषं कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः। दुहेरनेन यक् प्रतिषिध्यते। चिण् तु दुहश्च ३।१।६३ इति पूर्वम् एव विभाषितः। दुग्धे गौः स्वयम् एव। अदुग्ध गौः स्वयम् एव। अदोहि गौः स्वयम् एव। प्रस्नुते गौः स्वयम् एव। प्रास्नोष्ट गौः स्वयम् एव। नमते दण्डः स्वयम् एव। अन्ंस्त दण्डः स्वयम् एव। यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्। आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम्। कारयति कटं देवदत्तः। कारयते कटः स्वयम् एव। अचीकरत् कटं देवदत्तः। अचीकरत कटः स्वयम् एव। उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयम् एव। उदपुपुच्छत गौः स्वयम् एव। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयम् एव। अश्रन्थिष्ट ग्रन्थः स्वयम् एव। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकः स्वयम् एव। अग्रन्थिष्ट श्लोकः स्वयम् एव। ब्रवीति श्लोकं देवदत्तः। ब्रूते श्लोकः स्वयम् एव। अवोचत् श्लोकं देवदत्तः। अवोचत श्लोकः स्वयम् एव। आत्मनेपदविधाने ऽकर्मकाणाम् आहन्ति माणवकं देवदत्तः। आहते माणवकः स्वयम् एव। आवधिष्ट मानवकः स्वयम् एव, आहत इति वा। विकुर्वते सैन्धवाः स्वयम् एव। व्यकृषत सैन्धवः स्वयम् एव।
न्यासः
न दुहस्नुनमां यक्चिणौ। , ३।१।८९

"कर्मकत्र्तरि यक्चिणानुपदिष्टौ न भवतः" इति। कर्मकत्र्तरीति विशेषणम्। "कर्मवत् कर्मणा तुल्यक्रियः" ३।१।८७ इति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः, न तु चिण्वद्भावकर्मणोः। "सार्वधातुके यक्" ३।१।६७ इति च। शुद्धे कर्मणि यौ प्राप्तौ तयोरपीति दर्शनार्थम्। एतच्च "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति परिभाषया लभ्यते। "दुग्धे" इति। यकि प्रतिषिद्धे शप्, तस्यादादित्वाल्लुक्। पूर्ववद् घत्वघत्वजश्त्वानि। "अदुग्ध" इति। लुङ। चिणि प्रतिषिद्धे क्सः, तस्य "लुग्वा" ७।३।७३ इत्यादिना लुक्। "प्रस्नुते" इति। "{ष्णु प्ररुआवणे" धा।पा।} स्नु प्ररुआवणे" (धा।पा।१०३८), पूर्ववच्छपो लुक्। "प्रास्नोष्ट" इति। लुङ। "नमते" इति। "णम प्रह्वत्वे शब्दे" (धा।पा।९८१)। अन्तर्भावितण्यर्थोऽत्र नमिः कर्मणि वत्र्तत इति वेदितव्यम्। एवं हि कर्मस्थक्रियो भवति; अन्यथा कर्त्तृस्थक्रियत्वात् प्राप्तिर्नास्त्येवेति प्रतिषेधोऽनर्थकः स्यात्। अन्तर्भावितव्यर्थस्तु कर्मस्थक्रियो भवति-- नमति दण्डं देवदत्तः। "नमते दण्डः स्वयमेव" इति। यथा ण्यन्तावस्थायाम्। "यक्चिणोः प्रतिषेधे" इत्यादि। यक्चिणोः प्रतिषेधे कत्र्तव्ये श्रन्थ्यादीनामपि तस्य प्रतिषेधस्योपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। प्रतिपादनं तु नेति योगविभागादिष्टसिद्ध्यर्थात् कत्र्तव्यम्। णीति हेतुमण्णिच इतरस्य च णेग्र्रहणम्। हेतुमण्णिच्। "कारयति" कटं देवदत्तः। कारयते कटः स्यवमेव" इति। यकि प्रतिषिद्धे शप्। "अचीकरत कटः स्वयमेवट इति। चिणि प्रतिषिद्धे "णिश्रि" ३।१।४८ इत्यादिना चङ,णौ चङ्युपधाया ह्यस्वः" ७।४।१ इति ह्यस्वः। "चङि" ६।१।११ इति द्विर्वचनम्, अभ्यासकार्यम्। इतरो णिः-- "पुच्छभाण्ड चीवराण्णिङ" ३।१।२०। "उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव" (इति)। यकि प्रतिषिद्धे शप्। एवमुत्तरत्रापि वेदितव्यम्। "उदपुपुच्छत गौः स्वयमेव" इति। चिणि प्रतिषिद्धे पूर्ववच्चङ। एवमुत्तरत्रापि वेदितव्यम्। "श्रन्थ ग्रन्थ सन्दर्भे" (धा।पा।१५१२,१५१३)। चुरादौ ग्रन्थिश्रन्थी पठ()एते (धा।पा।१८३७,१८३८)। "आ धृषाद्वा" (धा।पा।१८०५ अनन्तरम्) इति विभाषाणिचौ। तयोर्यदा णिज् नास्ति तदोदाहरणे; अन्यथा णीत्येवं सिद्धिः। ग्रन्थि ग्रन्थं देवदत्तः। ग्रन्थते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। श्रन्थति मेखलां देवदत्तः। श्रन्थते मेखला स्वयमेव। "श्रन्थ ग्रन्थ सन्दर्भे" (धा।पा।१५१२,१५१३) इतिक्र्यादावपि पठ()एते, तयोरप्ययं प्रतिषेधः--- श्रथ्नीते मेखलां देवदत्तः, श्रन्थीते मेखला स्वयमेव। "ई हल्यघोः" ६।४।११३ इतीत्त्वम्। अश्रन्थिष्ट मेखला स्वयमेव। ग्रथ्नीते ग्रन्थं देवदत्तः। ग्रन्थीते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। ब्राऊते कथां देवदत्तः। ब्राऊते कथा स्वयमेव। पूर्ववच्छपो लुक्। अवोचत कथां देवदत्तः। अवोचत कथा स्वयमेव। "ब्राउवो वचिः" २।४।५३ इति वचिरादेशः, "अस्यतिवक्तिख्यातिभ्योषऽङ" ३।१।५२ इत्यङादेशः; "वच उम्" ७।४।२०। अन्तर्भावितण्यर्थत्वात् कर्मस्थक्रियात्वं वेदितव्यम्। "आत्मनेपदाकर्मकाणाम्" इति। आत्मनेपदविधावकर्मका ये धातवो गृह्रन्ते त आत्मनेपदाकर्मकाः। "विकुर्वते सैन्धवाः स्वयमेव" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यदादेशः। "व्यकृषत सैन्धवाः स्वयमेव" इत्यत्रापि कृञो विपूर्वात् "अकर्मकाच्च" १।३।३५ इत्यात्मनेपदविधानादात्मनेपदाकर्मकत्वम्। अत्रापि वल्गने वत्र्तमानः करोतिरन्तर्भावितण्यर्थः कर्मस्थकियो भवति॥
बाल-मनोरमा
न दुहस्नुनमां यक्चिणौ ५९२, ३।१।८९

न दुह। दुह स्नु नम् एषां द्वन्द्वः। कर्मकर्तरीति। एतत्तु नाऽनुवृत्तिलभ्यं, पूर्वत्रानुपलम्भात्। किंतु "कर्मवत्कर्मणा तुल्यक्रियः" इति समभिव्याहारलभ्यमेव। "अचः कर्मकर्तरी"त्यतो मण्डूकप्लुत्या तदनुवृत्तिर्वा। दुहेरनेनेति। "न दुहस्नुनमा"मित्यनेन दुहेः कर्मकर्तरि यक एव निषेधः। चिण्तु "दुहश्चे"ति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः। कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः। "चिण्तु विकल्पेनेष्यते" इति क्वचित्पाठः। दुग्धे इत्यत्र प्रक्रियां दर्शयति-- शप् लुगिति। दुहेः कर्मकर्तरि यकि निषिद्धे शप्प्रवर्तते, तस्य "अदिप्रभतिभ्यः" इति लुगित्यर्थः। "गौः पयो दुग्धे इति। गौः स्वयमेव पय उत्सृजतीत्यर्थः। कर्मकर्तृभूतायां गवि लट्। स्वरितेत्त्वेऽपि "भावकर्मणो"रित्यात्मनेदमेव। "न दुहेति न यक्। गांपयो दुग्धे इति तु नोदाह्मतम्, "गौणे कर्मणि दुह्रादेर्लादयो मताः"इत्युक्तेः। अचः कर्मकर्तरि। "च्लेः सि"जित्यतश्च्लेरिति, "चिण् ते पदः"इत्यतश्चिण्ते इति, "दीपजने"त्यतोऽन्यतरस्यामिति चानुवर्तते। "धातोरेकाचः" इत्यतोऽनुवृत्तस्य धातुग्रहणस्य अचा विशेषतत्वात्तदन्तविधिः। तदाह-- अजन्तादित्यादिना। अकारीति। "कटः स्वयमेवे"ति शेषः। कर्मकर्तरि लुङ्। च्लेश्चिण्। वृद्धिः। रपरत्वम्। "चिणो लु"गिति तशब्दस्य लुक्। अकृतेति। चिणभावपक्षे "ह्यस्वादङ्गा"दिति सिचो लोपः।

तत्त्व-बोधिनी
न दुहस्नुनमां यक्चिणौ ४८७, ३।१।८९

दुहिपच्योरिति। द्विकर्मकत्वादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायाममि सकर्मकत्वान्निषेधे प्राप्तेऽयमारम्भः। गौः पयो दुग्धे इति। अत्र कर्मवद्भावेनात्मनेपदं नित्यं। "गौणे कर्मणि दुह्रादेः" इत्युक्तत्वान्मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाह्मतमित्याहुः। एवं च "प्रधाने नीहकृष्वहा"मित्युक्तत्वात्तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम्।