पूर्वम्: ३।२।१०१
अनन्तरम्: ३।२।१०३
 
सूत्रम्
निष्ठा॥ ३।२।१०२
काशिका-वृत्तिः
निष्ठा ३।२।१०२

क्तक्तवतू निष्ठा १।१।२५ इत्युक्तं, स निष्ठसंज्ञकः प्रत्ययो भूते भवति। कृतम्। कृतवान्। भुक्तम्। भुक्तवान्। निष्ठायाम् इतरेतराश्रयत्वादप्रसिद्धिः। संज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः संज्ञाया भाव्यम्। न एष दोषः। भाविनी संज्ञा विज्ञायते। स भूते भवति, यस्योत्पन्नस्य निष्ठा इत्येषा संज्ञा भवति। समर्थ्यात् क्तक्तवत्वोर् विधानम् एतत्। आदिकर्मणि निष्ठ वक्तव्या। प्रकृतः कटं देवदत्तः। प्रकृतवान् कटं देवदत्तः।
लघु-सिद्धान्त-कौमुदी
निष्ठा ८१८, ३।२।१०२

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥
न्यासः
निष्ठा। , ३।२।१०२

"कृतम्" इति। अत्र कित्त्वाद् गुणाभावः। "कृतवान्" इति। "उगिदचाम्" ७।१।७० इति नुम्। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः, हल्ङ्यादि ६।१।६६ संयोगान्तलोपौ ८।२।२३। "निष्ठायाम्" इत्यादि। निष्ठासंज्ञके प्रत्यये विधातव्येऽप्रसिद्धनिष्पत्तिकस्य निष्ठासंज्ञकस्य प्रत्ययस्य निष्ठेति चास्याः संज्ञाया अप्रसिद्धिः, कुतः? इतरेतराश्रयत्वात्। कथमितरेतराश्रयत्वमित्याह-- "संज्ञायाम्" इत्यादि। निष्ठेत्येवं संज्ञामुच्चार्य क्तक्तवत्वोरिह भूते विधानम्, विद्यमानयोश्च तयोः संज्ञया भवितव्यमितीतरेतराश्रयत्वम्, "इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते"(व्या।प।२८)। यदितो क्तक्तवतू स्वरूपेण विज्ञातौ भवत एवञ्च "क्तक्तवतू निष्ठा" १।१।२५ इत्यन्यस्य संज्ञा विधातुं शक्यते,नान्यथा। अतः संज्ञाया अप्रसिद्धिः, तस्याश्चाप्रसिद्धौ तयोरप्रसिद्धिः। "भाविनी" इति। भविष्यन्तीत्यर्थः। यथा-- अस्य सूत्रस्य शाटकं वयेति। भाविनीशब्दोऽयम् "गमेरिनिः"(द।उ।६।५७) "आङि णित्" (द।उ।६।५८) "भुवश्च" (द।उ।६।५९) इतीनिप्रत्ययान्तो व्यत्पादितः। स च "भविष्यति गम्यादयः" ३।३।३ इति भविष्यत्काले विहितः। तेन भाविनीत्यस्य भविष्यन्तीत्येवार्थो लभ्यते। "सामथ्र्यात्" इत्यादि। स भूते भवति यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। न चान्यस्योत्पन्नस्य निष्ठेत्येषा संज्ञा भवति। अपि तु क्तक्तवत्वोरेवेति सामथ्र्यम्। "आदिकर्मणि" इत्यादि। कर्मशब्दोऽत्र क्रियावाची। आदिभूते क्रियारम्भादिभूते प्रथमे क्रियालक्षण इत्यर्थः। यावत्क्रियालक्षणैः सकलः कटः परिसमाप्तिमुपैति क्रियालक्षणानां तावतामपवर्गे भूतकालो भवति। आद्ये क्रियालक्षणे समुदायस्यापरिनिष्पन्नत्वात् वत्र्तमानकाल एवेति। तत्र वत्र्तमाने निष्ठा न प्राप्नोति, अतो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम्-- यदयं "उदुपधाद्भावादिकर्मणोरन्यतरस्याम्" १।२।२१ इत्यादिकर्मणि कर्मणि निष्ठा विकल्पयति। यद्वा-- "आदिकर्मणि क्तः कत्र्तरि च" ३।४।७१ इत्यादि, तज्ज्ञापयति-- आदिकर्मणि निष्ठा भवतीति। "प्रकृतः कटम्" इति। प्रशब्दोऽत्रादिकर्म द्योतयति। य एवार्थः प्रकरोति कटं देवदत्त इति, स एवार्थः प्रकृतः कटं देवदत्त इति॥ "सुत्वा" इति। "ह्यस्वस्य पिति कृति" ६।१।६९ इति तुक्, "सर्वनामस्थाने च" ६।४।८ इत्यादिना दीर्घः, "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नकारलोपः॥
बाल-मनोरमा
निष्ठा ८२३, ३।२।१०२

निष्ठा। भूते इति धातोरिति चाधिकृतम्। तदाह-- भूतार्थेत्यादि। भावकर्मणोः क्त इति। तथा च क्तप्रत्ययविषये कर्तरीति न संबध्यते इति भावः। कर्तरि क्तवतुरिति। कृत्यक्तखलर्थानामेव भाव कर्मणोर्विधानादिति भावः। "तयोरेव कृत्यक्ते"त्यत्र "लः कर्मणी"त्यस्मात्सकर्मकेभ्यः कर्णि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते। ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति-- स्नातं मयेति। अकर्मकत्वाद्भाव क्तः। स्तुतस्त्वया विष्णुरिति। सकर्मकत्वात्कर्मणि क्तः। कर्तरि क्तवतुमुदाहरति-- विष्णुर्वि()आमिति।