अधिकरणे इति वर्तते। चरेर् धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्।
चरेष्टः। ट इति च्छेदः। "अधिकरणे उपपदे" इति शेषः। "अधिकरणे शेते" रित्यतस्तदनुवृत्तेरिति भावः। कुरुचर इति। कुरुषु चरतीति विग्रहः। न च "अकर्मकधातुभिर्योगे" इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात्। तत्र अत्रत्यमपि भाष्यं प्रमाणम्।