सूत्रम्
उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ ३।२।३७
काशिका-वृत्तिः
उग्रम्पश्यैरम्मदपाणिन्धमाश् च ३।२।३७
उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते। उग्रं पश्यति इति उग्रम्पश्यः। इरया माद्यति इति इरम्मदः। पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः।
न्यासः
उग्रम्पश्येरम्मदपाणिन्धमाश्च। , ३।२।३७
"उग्रम्पश्य" इति। "कर्मण्यण्"
३।२।१ इति प्राप्ते दृशेः खश् निपात्यते। पूर्ववत् पश्यादेशः। "इरम्मदः"इति। "इरया माद्यति"इति। "मदी हर्षे" (धा।पा।१२०८)। तृजादिषु प्राप्तेषु खश् निपात्यते। तत्र दिवादित्वाच्छ्यनि प्राप्ते तदभावो निपात्यते। "पाणिन्धमाः" इति। अधिकरणे ल्युटि प्राप्ते खश् निपात्यते। पूर्ववद्धमादेशः।
बाल-मनोरमा
उग्रंपश्येरंमदापाणिन्धमाश्च ७६५, ३।२।३७
उग्रम्पश्य इति। खशि शप्, पश्यादेशः। इराशब्दस्य विवरणम्-- उदकमिति। इरम्मद इति। "खित्यनव्ययस्ये"ति ह्यस्वः। मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह-- निपातनाच्छ्यन्नेति। पाणिन्धम इति। शपि "पाघ्रे"ति धमादेशः।