पूर्वम्: ३।२।७४
अनन्तरम्: ३।२।७६
 
सूत्रम्
अन्येभ्योऽपि दृश्यन्ते॥ ३।२।७५
काशिका-वृत्तिः
अन्येभ्यो ऽपि दृश्यन्ते ३।२।७५

छन्दसि इति निवृत्तम्। अन्येभ्यो ऽपि धातुभ्यो ऽनाकारान्तेभ्यो मनिन् क्यनिप् वनिपित्येते प्रत्यया दृश्यन्ते, विच् च। सुशर्मा। क्वनिप् प्रातरित्वा। प्रातरित्वानौ। वनिप् विजावाग्ने। अग्रेयावा। विच् खल्वपि रेडसि। अपिशब्दः सर्वौपाधिव्यभिचारार्थः। निरुपपदादपि भवति। धीवा। पीवा। दृशिग्रहणं प्रयोगानुसरणार्थम्।
लघु-सिद्धान्त-कौमुदी
अन्येभ्योऽपि दृश्यन्ते ८०२, ३।२।७५

मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥
न्यासः
अन्येभ्योऽपि दृश्यन्ते। , ३।२।७५

"सुशर्मा" इति। "शृ? हिंसायाम्" (धा।पा।१४८८) शोभनं शृणातीति विग्रहः। "प्रातरित्वा" इति। इणः प्रातः शब्द उपपदे क्वनिप्, "ह्यस्वस्य पिति कृति" ६।१।६९ इति तुक्। "विजावा" इति। "जनी प्रादुर्भावे" (धा।पा।११४९), विजायत इति वनिप्, "विड्()वोरनुनासिकस्य" ६।४।४१ इत्यात्त्वम्। "अग्रेगावा" इति। "ग्म्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३) पूर्ववदात्त्वम्। "रेडसि" इति। "रिष हिंसायाम्" (धा।पा।६९४), पूर्ववज्जश्त्वं डकारः। "दृशिग्रहणं प्रयोगानुसरणार्थम्" इति।तेन प्रयोगे गम्यमाने यत्र दृश्यन्ते मनिन्नादयस्तत्रैवैते साधवः, अतो नापूर्वतमः क्रियते। एतेन "ते न सर्वतो विधेयाः" इत्युक्तं भवति। यद्यन्येभ्योऽपि दृश्यन्ते, पूर्वसूत्रमनर्थकम्, मनिन्नादयः सर्वधातुभ्यो दृश्यन्त इत्येवं वाच्यम्? नैतदस्ति; आकारान्तेभ्यो धातुभ्यो नियोगतस्ते भवन्ति, अनाकारान्तेभ्यः क्वचिदेय। अपि तु पूर्वयोगश्छन्()दसि, वयं तु भाषायामपि॥
बाल-मनोरमा
अन्येभ्योऽपि दृश्यन्ते ७९०, ३।२।७५

अन्येभ्योऽपि दृस्यन्ते। "विजुपे छन्दसि" "आतोमिन्()क्वनिब्वनिपश्चे"त्यधिकारे इदं इत्, इकार उच्चारणार्थः। विचि चकार इत् इकार उच्चारणार्थः।

तत्त्व-बोधिनी
अन्येभ्योऽपि दृश्यन्ते ६५५, ३।२।७५

अन्येभ्योऽपि दृश्यन्ते। इह "विजुपे छन्दसि" इत्यतो विच्प्रत्ययः। "आतो मनि"न्निति सूत्रान्मनिनादयश्चानुवर्तन्ते। तदाह-- मनिन्क्वनिबित्यादि।