पूर्वम्: ३।३।१२४
अनन्तरम्: ३।३।१२६
 
सूत्रम्
खनो घ च॥ ३।३।१२५
काशिका-वृत्तिः
खनो घ च ३।३।१२५

खनतेः धातोः करणाधिकरणयोः घः प्रत्ययो भवति। चकारात् घञ् च। आखनः, आखानः। डो वक्तव्यः। आखः। डरो वक्तव्यः। आखरः। इको वक्तव्यः। आखनिकः। इकवको वक्तव्यः। आखनिकवकः।
न्यासः
खनो घ च। , ३।३।१२५

"डो वक्तव्यः"इत्यादि सर्वत्र वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थः। तत्रेदं व्याख्यानम्- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन डादयोऽपि प्रत्यया भविष्यन्तीति। ननु च घञनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि घञपतिष्ठते। अथ किमर्थं खनेर्घः प्रत्ययो विधीयते, यावता कुत्वार्थं तस्य विधानम्, न च खनेः कश्चिदवयवः कुत्वभागस्ति? एवं तह्र्रेतज्ज्ञापयति--अन्येभ्योऽप्ययं भवतीति। तेन खलः,भगम्, पदमित्येवमादयः सिद्धा भवन्ति॥
तत्त्व-बोधिनी
खनो घ च १५७८, ३।३।१२५

खनो। घित्ककरणमिति। "आखन"इत्यादौ "चजो"रिति कुत्वस्य प्रसक्त्यभावादिति भावः। भगः। पदमिति। ननु पदमित्यत्र घस्य किं प्रयोजनमिति चेदत्राहुः-- "करणाधिकरणयोः" "पुंसि संज्ञाया"मिति यदि घः स्यात्तदा "पद"मिति नपुंसकं न स्यात्, अनेन चेद्धो भवति तदा त्विष्टसिद्धिरिति। एते इति। आखनादयः षडित्यर्थः।