पूर्वम्: ३।३।१८
अनन्तरम्: ३।३।२०
 
सूत्रम्
अकर्तरि च कारके संज्ञायाम्॥ ३।३।१९
काशिका-वृत्तिः
अकर्तरि च कारके संज्ञायाम् ३।३।१९

कर्तृवर्जिते कारके संज्ञायां विषये धातोः घञ् भवति। प्रास्यन्ति तं प्रासः। प्रसीव्यन्ति तं प्रसेवः। आहरन्ति तस्माद् रसम् इति आहारः। मधुराहारः। तक्षशिलाहारः। अकर्तरि इति किम्? मिषत्यसौ मेषः। सज्ञायाम् इति किम्? कर्तव्यः कटः। संज्ञाव्यभिचारार्थश्चकारः। को भवता दायो दत्तः। को भवता लाभो लब्धः। कारकग्रहणं पर्युदासे न कर्तव्यम्। तत् क्रियते प्रसज्यप्रतिषेधे ऽपि समासो ऽस्ति इति ज्ञापनार्थम्, आदेच उपदेशे ऽशिति ६।१।४४ इति। इत उत्तरं भावे, अकर्तरि च कारके इति द्वयम् अनुवर्तते।
लघु-सिद्धान्त-कौमुदी
अकर्तरि च कारके संज्ञायाम् ८५५, ३।३।१९

कर्तृभिन्ने कारके घञ् स्यात्॥
न्यासः
अकत्र्तरि च कारके संज्ञायाम्। , ३।३।१९

"प्रासः"इति। "असु क्षेपणे" (धा।पा।१२०९), "प्रसेवः" इति। "षिवृ तन्तुसन्ताने" (धा।पा।११०८), उभयत्राप्यत्र कर्मणि घञ्। "आहारः" इति। "ह्मञ् हरणे" (धा।पा।८९९)। "मधुराहारः" इति। कर्मधारयः, षष्ठीतत्पुरुषो वा। "मेषः" इति। "मिष स्पद्र्धायाम्" (धा।पा।१३५२), पचाद्यच्। "कत्र्तव्यः" इति। कर्मणि तव्यः। "चकारः संज्ञाव्यभिचारार्थः" इति। चकारोऽयं भिन्नक्रमः संज्ञायामित्यस्यानन्तरं द्रष्टव्यः, तदनेन चार्थ द्योत्यते। "संज्ञायाञ्च"इति चार्थं द्योतयन्नसौ संज्ञाव्यभिचाराय भवति, तेनासंज्ञायामपि च भवति यद्येवम्, संज्ञाग्रहणमकृत्वा सामान्येनैव प्रत्ययो विधेयः; तत्राप्ययमर्थः-- संज्ञाव्यभिचारार्थश्चकारो न कत्र्तव्यो भवति? सत्यमेतत् ; तथापि बाहुल्येन संज्ञायां भवति; असंज्ञायां तु क्वचिदेवेत्यमुमर्थं सूचयितुं संज्ञाग्रहणं कृतम्। दीयत इति "दायः" कर्मणि घञ्, पूर्ववद् युक्। "लाभः" इति कर्मण्येव घञ्। "कारकग्रहणम्" इत्यादि। पर्युदासे हि "अकत्र्तरि" इत्युक्ते कारकग्रहणमन्तेरणापि नञिवयुक्तन्यायेन (व्या।प।६५) कर्त्तुरन्यत्र तादृशे कारक एव कर्मादौ प्रतीतिर्भवति, यथा-- अब्राआहृण इति ब्राआहृणसदृशे क्षत्रियादौ। तस्मात् पर्युदासे विनापि कारकग्रहणेन कारकएव प्रत्ययो लभ्यतैत कारकग्रहणं न कत्र्तव्यम्। प्रसज्यप्रतिषेधे तु कत्र्तव्यम्, तत्र हि क्रियाप्रतिषेधमात्रं प्रतीयते, न सदृशं वस्त्वन्तरम्। तत्र यदि "अकत्र्तरि संज्ञायाम्" इत्येतावदुच्येत, कत्र्तरि न भवतीत्येषोऽर्थः प्रतीयेत। एवञ्च विधायकस्य वाक्यान्तरस्याभ#आवात् कर्मादिषु प्रत्ययो न स्यात्। क्व तर्हि स्यात्? "अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (पुं।प।९०) इति स्वार्थे। ननु च विहितः स्वार्थे पूर्वेणेव? नैतदस्ति;"धात्वर्थस्य हि सिद्धता नाम यो धर्मस्तत्र घञादयो विधीयन्ते" इत्युक्तम्। तस्मात् प्रसज्यप्रतिषेधे कारकग्रहणं क्रियते? इत्यत आह-- पर्युदासे कारकग्रहणमन्तरेणापि सिध्यति, स एवाश्रयिष्यते, तत्किमर्थमं कारकग्रहणं क्रियते? इत्यत आह-- "तत्क्रियते" इत्यादि। यदि तर्हि पर्युदास एवैष नञ्समासः स्यात्, कारकग्रहणमनर्थकं स्यात्, विनापि हि तेन कारक एव प्रत्ययो लभ्यते; प्रसज्यप्रतिषेधे तु सति कारकग्रहणमर्थवद्भवति, न हि तत्र विनापि तेन कारके प्रत्ययो लभ्यते। इवञ्चानन्तरमेव प्रतिपादनम्। तस्मात् कारकग्रहणेन प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञाप्यते। तेन "आदेच उपदेशेऽशिति" ६।१।४४ इत्यत्र प्रसज्यप्रतिषेधे समासो लभ्यते, ततश्च यदुक्तम्--"अनैमित्तिकमात्त्वं शिति प्रतिषेधः" इति, तदुपपन्नं भवति। किं पुनः कारणं तत्र प्रसज्यप्रतिषेध आश्रीयते? प्रागेव प्रत्ययोत्पत्तेरनिमित्तक आत्त्वे कृते सुग्लः सुम्ल इति "आतश्चोपसर्गे" ३।१।१३६ इति को यथा स्यात्। पर्युदासे तु तत्राश्रीयमाणे शितोऽन्यत्र तृजादौ प्रत्यये परभूत आत्त्वेन भवितव्यम्, ततश्च ग्लायतिप्रभृतिभ्य आकारान्तलक्षमः प्रत्ययो न स्यात्। ननु चाचार्यप्रवृत्तिज्र्ञापयति-- भवन्त्येजन्तेभ्य आकारान्तलक्षणः प्रत्यय इति, यदयं कबाधनार्थं "ह्वावामश्च" ३।२।२ इत्यणं शास्ति, तस्मादशितीति पर्युदासेऽप्याश्रीयमाणे ज्ञापकादेजन्तस्याकारान्तलक्षणः प्रत्ययः सिध्यत्येव? नैतदस्ति; कर्मोपपदविषयमेवैतज्ज्ञापकं विज्ञायते। तस्मादशितीत्यत्र प्रसज्यप्रतिषेध एवाश्रयितुं युक्तः। तस्य चास्तित्वमिह कारकग्रहणेन ज्ञाप्यते। किं पुनः कारणं प्रसज्यप्रतिषेधो न सिध्यति, यतस्तदस्तित्वज्ञापनं प्रतिपन्नं क्रियते? असामथ्र्यं कारणम्; सामर्थ्ये हि सति समासेन भवितव्यम्,न च तत् प्रसज्यप्रतिषेधे। तथा हि ततर् नञ् क्रियया सम्बद्धः, नोत्तरपदेन॥