पूर्वम्: ३।४।१००
अनन्तरम्: ३।४।१०२
 
सूत्रम्
तस्थस्थमिपां तांतंतामः॥ ३।४।१०१
काशिका-वृत्तिः
तस्थस्थमिपाम् तांतंतामः ३।४।१०१

ङितः इत्येव। ङिल्लकारसम्बन्धिनां चतुर्णाम् यथासङ्ख्यं तामादयः अदेशा भवन्ति। अपचताम्। अपचतम्। अपचत। अपचम्। अपाक्ताम्। अपाक्तम्। अपाक्त। अपाक्षम्।
लघु-सिद्धान्त-कौमुदी
तस्थस्थमिपां तांतंतामः ४१६, ३।४।१०१

ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥
न्यासः
तस्थस्थमिपां तान्तन्तामः। , ३।४।१०१

"अपाक्ताम्" इति। पूर्ववद्()वृद्धिः, "झलो झलि" ८।२।२६ इति सिचो लोपः॥
बाल-मनोरमा
तस्थस्थमिपां तांतंताऽमः ४८, ३।४।१०१

तस्थस्थमिपां। तस्,थस्, थ, मिप्,--एषां द्वन्द्वात्षष्ठीबहुवचनम्। ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम्। "नित्यं ङित" इत्यस्मान्ङित इत्यनुव्रतते। तदाह--ङितश्चतुर्णामिति। ङितो लकारस्य आदेशभूतानामित्यर्थः। क्रमादिति। यथासङ्ख्यसूत्रलभ्यमिदम्।