पूर्वम्: ३।४।११५
अनन्तरम्: ३।४।११७
 
सूत्रम्
लिङाशिषि॥ ३।४।११६
काशिका-वृत्तिः
लिङाशिषि ३।४।११६

आशिषि विषये यो लिङ् स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्च एवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषि इति किम्? लुनीयात्। पुनीयात्।
लघु-सिद्धान्त-कौमुदी
लिङाशिषि ४३३, ३।४।११६

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥
न्यासः
लिङाशिषि। , ३।४।११६

"{लविषीष्ठा" इति मु।पाठः} लविषीष्ट" इति। थास् , "सुट् तिथोः" ३।४।१०७ इति सुट्, षष्वम्, ष्टत्वञ्च॥
तत्त्व-बोधिनी
लिङाशिषि ४८, ३।४।११६

आर्धधातुकसंज्ञ इति। "लङः शाकटायनस्यैवे"त्येत एवकारोऽनुवर्तनीयः। अन्यथा एकसंज्ञाधिकारबहिर्भूत्तवेन सार्वधातुकसंज्ञापि स्यात्, ततश्च पक्षे शबादिः स्यात्।