पूर्वम्: ३।४।१५
अनन्तरम्: ३।४।१७
 
सूत्रम्
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्॥ ३।४।१६
काशिका-वृत्तिः
भावलक्षने स्थाइण्कृञ्वदिचरिहुतमिजनिभ्यस् तोसुन् ३।४।१६

कृत्यार्थे इति निवृत्तम्। तुमर्थे इति वर्तते। प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम्। भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यः छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति। आसंस्थातोर्वेद्यां शेरते। आ समाप्तेः सीदन्ति इत्यर्थः। इण् पुरा सूर्यस्तोदेतोराधेयः। कृञ् पुरा वत्सानामपाकर्तोः। वदि पुरा प्रवदितोरग्नौ प्रहोतव्यम्। चरि पुरा प्रचरितोराग्नीध्रीये होतव्यम्। हु आहोतोरप्रमत्तस्तिष्थति। तमि आ तमितोरासीत। जनि काममा विजनितोः सम्भवामेति इति।
न्यासः
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्। , ३।४।१६

"आसंस्थातोः" इत्यादि। आसंस्थातोः शब्देन समाप्तिरुच्यते, वेद्यां सदनं लक्ष्यते। "पुरा सूर्यस्योदेतोराधेयः" इति। अत्राप्याधानक्रिया सूर्यस्योदयेन। "पुरा वत्सानाम्" त्यादौ वत्सानामपाकरणेनासनम्। "पुरा प्रवदितोः" इत्यादौ प्रवदनेन हवनम्। "पुरा प्रचरितोः" इत्यादौ प्रचरणेन हवनमेव। उत्तरयोरुदाहरणयोराहवनेनासम्भवनम्॥