पूर्वम्: ३।४।५१
अनन्तरम्: ३।४।५३
 
सूत्रम्
अपादाने परीप्सायाम्॥ ३।४।५२
काशिका-वृत्तिः
अपादाने परीप्सायाम् ३।४।५२

परीप्सा त्वरा। परीप्सायां गम्यमानायाम् अपादाने उपपदे धातोः णमुल् प्रत्ययो भवति। शय्योत्थायं धावति, शय्याया उत्थाय। एवं नाम त्वरते यदवश्यंकर्तव्यम् अपि न अपेक्षते। शय्योत्थानमात्रम् आद्रियते। रन्ध्रापकर्षं पयः पिवति। भ्राष्ट्रापकर्षमपूपान् भक्षयति। परीप्सायाम् इति किम्? आसनादुत्थाय गच्छति।
न्यासः
अपादाने परीप्सायाम्। , ३।४।५२

"शय्योत्थायम्िति। "उदः स्थास्तम्भोः पूर्वस्य " ८।४।६० इति पूर्वसवर् णः, "आतो युक्" ७।३।३३ एवम्" इत्यादिना परीप्सां दर्शयति। "रन्ध्रापकर्षम्" इति। एवं नाम त्वरते यत् पात्रमपि नापेक्षते, स्तनरन्ध्रादेवापकृष्य मुखेन पयः पिबतीत्यर्थः। "भ्राष्ट्रापकर्षम्" इति। एवं नाम त्वरते यद्भाजनमपि दीयमानं नापेक्षते, भ्राष्ट्रादेवापकृष्य हस्तेन भक्षयति॥