पूर्वम्: ३।४।८१
अनन्तरम्: ३।४।८३
 
सूत्रम्
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः॥ ३।४।८२
काशिका-वृत्तिः
प्रस्मैपदानां णलतुसुस्थल्थुसणल्वमाः ३।४।८२

लिटः इत्येव। लिडादेशानां परस्मैपदसंज्ञाकानां यथासङ्ख्यं तिबादीनां णलादयो नव आदेशा भवन्ति। लकारः स्वरार्थः। णकारो वृद्ध्यर्थः। पपाच, पेचतुः, पेचुः। पेचिथ, पपक्थ, पेचथुः, पेच। पपाच, पपच, पेचिव, पेचिम।
लघु-सिद्धान्त-कौमुदी
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ३९४, ३।४।८२

लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते --।
न्यासः
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। , ३।४।८२

"पपक्थ" इति। "उपदेशेऽत्वतः" ७।२।६२ इतीडभावः। "पेचिथ" इति क्वचित् पाठः, तत्र हि "ऋतो भारद्वाजस्य" ७।२।६३ इति नियमादिट्। "थलि च सेटि" ६।४।१२१ इत्येवत्वाभ्यासलोपौ। "पेच" इति। "धातोः" ३।१।९१ इत्यधिकारात् "तस्मादित्युत्तरस्य" १।१।६६ , "आदेः परस्य" १।१।५३ इति थकारस्याकारादेशः। द्वयोराकारयोः "अतो गुणे " ६।१।९४ पररूपत्वम्। अथ वा-- आन्तरतम्याद्बह्वर्थस्याकारस्य बह्वर्थ एव स्थानी युक्त इति समुदायस्यैव भवति। "पेचिव, पेचिम" इति। क्रादिनियमादिट्॥
बाल-मनोरमा
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः २३, ३।४।८२

परस्मैपदानां। लिटस्तझयोरित्यस्माल्लिट इत्यनुवृत्तिमभिप्रेत्याह-- लिटस्तिबादीनामिति। णलादय इति। णल्, अतुस्, उस्। थल्, अथुस् अ। णल्, व , म-इत्येते नव यथासङ्ख्यं स्युरित्यर्थः। तत्र तिपो णल् सर्वादेशः। न च णकारलकारयोः "चुटू" इति "हलन्त्य"मिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वामिति वाच्यं, सर्वादेशत्वात्प्राग्णलः प्रत्ययत्वाऽभावेन "चुटू" इत्यस्याऽप्रवृत्तेः। णित्त्वं तु जुहावेत्यादौ वृद्ध्यर्थम्। लित्त्वं तु लित्स्वरार्थम्। ननु मध्यमपुरुषबहुवचनथस्य विधीयमानोऽकारः "अलोऽन्त्यस्ये"त्यन्यस्य स्यात्। अकारस्य अकारविधिस्तु यथासङ्ख्यापादनार्थ इति चेत्, सत्यम्, द्वयोरकारयोः परूपेण "अ" इति सूत्रे निर्देशादनेकाल्त्वात्सर्वादेशत्वमिति भाष्ये स्पष्टम्। न च अतुसादीनामादेशत्वात्पूर्वं विभक्तित्वाऽभावेन "न विभक्ता" विति निषेधाऽभावत्सकारस्येत्त्वं दुर्वारमिति वाच्यं, सकारादुपरि सकारान्तस्य संयोगान्तलोपेन लुप्तया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाऽभावादित्यलम्।

तत्त्व-बोधिनी
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः १९, ३।४।८२

अत्र थशब्दस्याऽकारो विधीयमानोऽन्त्यस् प्राप्नोति। न चाऽकारस्याऽकारविधौ निरर्थकत्वमिति वाच्यं, यथासङ्ख्यसंपादनेन कृतार्थत्वात्। अत्राहुः--- धातोरित्यधिकारात् "आदेः परस्ये"ति व्यञ्जनमात्रस्य कृतेर, द्वयोः "अतो गुणे" इति पररूपम्। यद्वा द्वयोरकारयोः पपरूपेण सूत्रे निर्देशः, तथा चानेकाल्त्वात्सर्वादेशे सिद्धमिष्टमिति। ननु सुबन्थानामेव द्वन्द्वस्तत्र त्वकारद्वयकल्पनायां सवर्णदीर्घ एव स्यादिति चेन्मैवम्। आदेशानां स्थान्यर्थेनैवार्थवत्त्वात्थशब्दस्य विधीयमानमकारद्वयं प्रत्येकमर्थवन्न भवतीति समुदितस्य प्रातिपदिकत्वेन "अतो गुणे" इति पररूपस्यैव प्रवृत्तिः॥