पूर्वम्: ३।४।८५
अनन्तरम्: ३।४।८७
 
सूत्रम्
एरुः॥ ३।४।८६
काशिका-वृत्तिः
एरुः ३।४।८६

लोटः इत्येव। लोडादेशानाम् इकारस्य उकारादेशो भवति। पचतु। पचन्तु। हिन्योरुत्वप्रतिषेधो वक्तव्यः। न वा उच्चारणसामर्थ्यात्। अथ वा वा इति वर्तते, सा च व्यवशितविभाषा।
लघु-सिद्धान्त-कौमुदी
एरुः ४१३, ३।४।८६

लोट इकारस्य उः। भवतु॥
न्यासः
एरुः। , ३।४।८६

"हिन्योः" इत्यादि। हिश्च निश्च हिनी, तयोरुत्वप्रतिषेधो वक्तव्यः, अन्यथा हि लुनीहि पचानीति न सिध्येत्। "न वोच्चारणसामथ्र्यात्" इति। यदि हीकारे कृते सत्युकारेण भवितव्यं तदोकारमेवोच्चारयेत्। अयं हि लधीयान् शब्दव्युत्पत्तावुपायः। न चेकारोच्चारणे सूत्रस्य लाघवं भवति, तदुकार एवोच्चरयितव्ये यदिकारोच्चारणं करोति, तस्यैतत् प्रयोजनम्-- उत्वं मा भूदिति॥
बाल-मनोरमा
एरुः ४५, ३।४।८६

लोटस्तिपि विशेषमाह--एरुः। "एः-उः" इति च्छेदः। एरिति षष्ठ()न्तम्। इवर्णस्येति लभ्यते। "लोटो लङ्व"दित्यतो लोट इत्यनुवर्तते। तदाह--लोट इति। भवत्विति। तिपि शपि गुणेऽवादेशे तिप इकारस्य उकारः।