ण्ये प्राप्ते इञपरो विधीयते। सेनान्तलक्षणकारिभ्यो ऽपत्ये इञ् प्रत्ययो भवति उदीचां मतेन। कारिषेणिः। हारिषेणिः। लाक्षणिः। तान्तुवायिः। कौम्भकारिः। वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम्। तक्षन्शब्दः शिवादिः, तेन अणा अयम् इञ् बाध्यते, न तु ण्यः। तक्ष्णो ऽपत्यं ताक्ष्णः, ताक्षण्यः।
"वचनसामथ्र्यात्" इत्यादि। ण्योऽप्युच्यते, इञपि, वचनसामथ्र्यादेवान्तरेणाचार्यग्रहणं तयोः समावेशे सिद्धे तदाचार्यग्रहणं क्रियते तद्वैचित्र्यार्थम्। आचार्यग्रहणस्यातिरिच्यमानत्वादयमर्थो लभ्यते, ग्रन्थाधिक्यादर्थाधिक्यं भवतीति कृत्वा।
ननु च पूजार्थमाचार्यग्रहणं स्यात्? नैतदस्ति; एवं हि प्राचामपि ग्रहणं कत्र्तव्यं स्यात्। तेऽपि हि सेनान्तलक्षणकारिभ्य इञं स्मरन्ति। "तक्षन्शब्दः" इत्यादिना वैचित्र्यं दर्शयति। "ताक्ष्णः" इति। शिवाद्यणि कृते "षपूर्वहन्धृतराज्ञामणि"
६।४।१३५ इत्यल्लोपः। "ताक्षण्यः" इति। "ये चाभावकर्मणोः"
६।४।१६८ इति प्रकृतिभावः॥
उदीचामिञ्। सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः। परत्वात्फिञेवेति। "उदीचां वृद्धा"दित्यनेनेति शेषः।
तक्ष्णोऽण उपसङ्ख्यानमिति। "उदीचांमते"इति शेषः। ताक्ष्ण इति। अणि प्रकृतिभावान्न टिलोपः। "अल्लोपस्तु "षपूर्वह"न्निति वचनाद्भवति। पक्षे ताक्षण्य इति। प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः। "ये चाऽभावकर्मणोः" इति प्रकृतिभावान्न टिलोपः।