पूर्वम्: ४।१।१६२
अनन्तरम्: ४।१।१६४
 
सूत्रम्
जीवति तु वंश्ये युवा॥ ४।१।१६३
काशिका-वृत्तिः
जीवति तु वंश्ये युवा ४।१।१६३

अभिजनप्रबन्धो वंशः। तत्र भवो वंश्यः पित्रादिः। तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति। पौत्रप्रभृति इति च न सामानाऽधिकरण्येन अपत्यं विशेषयति, किं तर्हि, षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर् यदपत्यम् इति। तेन चतुर्थादारभ्य युव। संज्ञा विधीयते। गार्ग्यायणः। वात्स्यायनः। तुशब्दो ऽवधारणार्थो युव एव न गोत्रम् इति।
लघु-सिद्धान्त-कौमुदी
जीवति तु वंश्ये युवा १०१३, ४।१।१६३

वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥
न्यासः
जीवति तु वंश्ये युवा। , ४।१।१६३

"अभिजनप्रबन्धः" इति। अभजनाः = पितामहादयः, प्रबन्धः = सन्तानः, तत्र भवो वंश्य इति दिगादित्वाद्यत्। "पौत्रप्रभृत्यपत्यम्" इति। षष्ठीसमासः। "पौत्रप्रभृतीति च" इत्यादि। यदि पौत्रप्रभृतीत्येतत् सामानाधिकरण्येनापत्यं विशेषयेत् पौत्रप्रभृति यदपत्यमिति तदारभ्य युवसंज्ञा स्यात्, तच्चानिष्टम्। तस्मान्नैतत् सामानाधिकरण्येनापत्यस्य विशेषणम् किं तर्हि? अर्थाद्विभवनक्तविपरिणामे कृते षष्ठ()न्ततामापन्नं वैयधिकरण्येन पौत्रप्रभृर्यदपत्यमिति, तथा सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह-- "तेन" इत्यादि। यत एवं विभक्तिविपरिणामे कृते पौत्रप्रभृतीत्यनेन षष्ठ()न्तेनापत्यं विशेष्यते तेन चतुर्थादारभ्य युवसंज्ञा विधीयते, तस्य च विभक्तपरिणामस्यापत्यं हेतुः। अपत्यशब्दो हि सम्बन्धिशब्दत्वनाद्धेत्वाद्यपेक्षते,तत्र षष्ठ()आ हेतुर्भवति। सन्निहितत्वाच्च। पौत्रप्रभृति तस्येत्येतदेवापेक्षते, ततस्तत्रैव षष्ठीं प्रकल्पयति।यदि तह्र्रपत्यग्रहमसामथ्र्यात् पौत्रप्रभृतेः षष्ठीविपरिणामो भवति, पूर्वसूत्रेऽपि कस्मान्न भवति? तत्र प्रथमाया अनवकाशत्वात्। पूर्वसूत्रे ह्रकृतार्था प्रथमा, ततो न शक्यते तस्याः षष्ठीं विपरिणमयितुम्। इह तु कृतार्था शक्यते षष्ठीभावेन विपरिणमयितुम्। "गाग्र्यायणः" इति। इह युवसंज्ञायां सत्यां "गोत्राद्यून्यस्त्रियाम्" ४।१।९४ इति गोत्रप्रत्ययान्ताद्यूनि प्रत्ययो भवति। "तु शब्दोऽवधारणार्थः" इति। कः पुनः संज्ञासमावेशे दोषः कथ्यते? शालङ्केरपत्यं युवा "यञिञोश्च" ४।१।१०१ इति फक्, पैलस्यापत्यं युवा "अणो द्व्यचः"४।१।१५६ इत फिञ्,तयोः "पैलादिभ्यश्च" १।४।५८ इति लुगुच्यते-- शालङ्किर्युवा, पैलो युवेति। यदि च गोत्रयुवसंज्ञयोः समावेशः स्यात् तदा शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायां प्राग्दीव्यतीयेऽजादौ प्रत्यये विषयभूते गोत्रादयः "गोत्रेऽलुगचि" ४।१।८९ इत्यलुक् स्यात्। ततस्तस्माद्यूनो गोत्रसंज्ञा मा भूदित्यवधारणार्थस्तुशब्दः क्रियते॥
बाल-मनोरमा
जीवति तु वंश्ये युवा १०७३, ४।१।१६३

जीवति। वंशः--उत्पादकपित्रादिपरम्परा। तत्र भवो वंश्यः। दिगादित्वाद्यत्। तदाह--वंश्ये पित्रादौ जीवतीति। जीवतीति सप्तम्यन्तम्। पौत्रादेरिति। पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठ()आ विपरिणम्यत इति भावः। यदपत्यमिति। "तस्यापत्य"मित्यतस्तदनुवृत्तेरिति भावः। तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः। तदाह--युवसंज्ञमेनेति। तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन्न समावेश इति भावः। युवसञ्ज्ञया सहगोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात्। शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः। इञ्। पैलादिगणे शालङ्कीति पाठात्प्रकृतेः शलङ्कादेशश्च। शालङ्केरपत्यं युवापि शालङ्किरेव। "यञिञोस्चे"ति फक्। "पैलादिभ्यश्चे"ति तस्य लुक्। शालङ्केर्यूनछात्रा इत्यर्थे "इञश्चे"त्यणि "शालङ्का" इति रूपम्। तथा पीलाया गोत्रापत्यं पैलः। "पीलाया वा" इत्यण्। पैलस्यापत्यं युवापि पैल एव। "अणो द्व्यचः" इति फिञ्। "पैलादिभ्यश्चे"ति तस्य लुक्। पैलस्य यूनश्छात्र इत्यर्थे वृद्धाच्छः। "पैलीया" इति रूपम्। युवगोत्रसंज्ञयोः समावेशे तु "गोत्रेऽलुगचि" इति फक्फिञोरलुक्प्रसज्येतेत्यलम्।

तत्त्व-बोधिनी
जीवति तु वंश्ये युवा ८९९, ४।१।१६३

जीवति तु वंश्ये। पितृपितामहाद्युत्पादकप्रबन्धो वंशः। तत्र भवो वंश्यः। दिगादित्वाद्यत्। "पौत्रप्रभृती"त्यनुवृत्तं षष्ठ()आ विपरिणम्यते, व्याख्यानात्, "गोत्राद्यून्यस्त्रिया"मिति लिङ्गाच्चेत्याह---पौत्रादेरिति। तुशब्दोभिन्नक मो युवेत्यस्मात्परो बोध्यः। स च एवकारार्थ इति व्याचष्टे।