पूर्वम्: ४।१।९६
अनन्तरम्: ४।१।९८
 
सूत्रम्
सुधातुरकङ् च॥ ४।१।९७
काशिका-वृत्तिः
सुधातुरकङ् च ४।१।९७

सुधातृशब्दादपत्ये इञ् प्रत्ययो भवति, तत्संनियोगेन च तस्य अकङदेशो भवति। सुधातुरपत्यम् सौधातकिः। व्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम्। वैयासकिः। बारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः।
न्यासः
सुधातुरकङ् च। , ४।१।९७

"व्यासवरुड" इत्यादि। व्यासादीनामिञ्, तत्सन्नियोगेन चाकङादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पूर्वसूत्रामिह चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः,तेन व्यासादीनामपि भविष्यति। "वैयासकिः" इति। "न य्वाभ्याम्" ७।३।३ इत्यादिनैज्वृद्धिप्रतिषेधौ। अथ बाह्वादिष्वेव सुधातृशब्दमधीत्य तत्र चाकङादेशः कस्मान्न कृतः, यथा-- अमितौजसः सलोपश्चेति गणे पठ()ते? सूत्रे वा, न तत्र कश्चिल्लाघवाभावाद्विशेषो लभ्यत इति यत्किञ्चिदेतत्॥