सूत्रम्
कुलालादिभ्यो वुञ्॥ ४।३।११८
काशिका-वृत्तिः
कुलालाऽदिभ्यो वुञ् ४।३।११८
तेन, कृते, संज्ञायाम् इति च एतत् सर्वम् अनुवर्तते। कुलालादिभ्यः वुञ् प्रत्ययो भवति तेन कृतम् इत्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम्। कौलालकम्। वारुडकम्। कुलाल। वरुद। चण्डाल। निषाद। कर्मार। सेना। सिरघ्र। सेन्द्रिय। देवराज। परिषत्। वधू। रुरु। ध्रुव। रुद्र। अनडुः। ब्रह्मन्। कुम्भकार। श्वपाक। कुलालादिः।
न्यासः
कुलालादिभ्यो वुञ्। , ४।३।११८
बाल-मनोरमा
कुलालादिभ्यो वुञ् १४७७, ४।३।११८
कुलालादिभ्यो वुञ्। "तेन कृते संज्ञाया"मिति शेषपूरणम्। वारुडकमिति। वरुडो जातिविशेषः।
तत्त्व-बोधिनी
कुलालादिभ्यो वुञ् ११५२, ४।३।११८
कुलालादिभ्यो। कुलाल वरुड चण्डाल निषाद कुम्भकार ()आपाकादयः कुलालादयः। क्षुद्राभ्रमर। पादपशब्दाच्छे प्राप्ते, अन्यब्योऽपि अणि अञ् विधीयते।