पूर्वम्: ४।३।३०
अनन्तरम्: ४।३।३२
 
सूत्रम्
अ च॥ ४।३।३१
काशिका-वृत्तिः
अ च ४।३।३१

अमावास्याशब्दातकारः प्रत्ययो भवति तत्र जातः ४।३।२५ इत्येतस्मिन् विषये। पूर्वेण वुन्नणोः प्राप्तयोः अयं तृतीयः विधीयते। अमावास्यः, अमावास्यकः, अमावास्यः। अमावस्यः, अमावस्यकः, आमावस्यः।
न्यासः
अ च। , ४।३।३१

अथ योग विभागः किमर्थः,न "अमावास्या अ च वा" इत्येवोच्येत, चकारो वुनोऽनुकर्षार्थो भविष्यति, वावचनञ्चोभयोर्विकल्पार्थम्, तेन ताभ्यां मुक्कतेऽणपि भविष्यति? अस्त्येतत्; किन्त्वेकयोगे सति "सिन्ध्वपकराभ्यां कन्" ४।३।३२ इति कन्नेव विकल्पेन कस्यचिद्()भ्रान्तिः स्यात्; अतस्तन्निवृत्त्यर्थं योगविभागे हि सति व्यवधानतया विकल्पस्य कन् नित्यो विज्ञायते॥
बाल-मनोरमा
अ च १३८३, ४।३।३१

अ च। "अ" इति। लुप्तप्रथमाकम्। अमावास्याशब्दादकार प्रत्ययोऽपीत्यर्थः। आदिवृद्ध्यभावः प्रयोजनम्।