पूर्वम्: ४।३।७८
अनन्तरम्: ४।३।८०
सूत्रम्
पितुर्यच्च॥
४।३।७९
काशिका-वृत्तिः
पितुर् यच् च
४।३।७९
पितृशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ् च ततागतः इत्येतस्मिन् विषये। पितुरागतं पित्र्यम्, पैतृकम्।
न्यासः
पितुर्यच्च।
, ४।३।७९
"पित्र्यम्" इति। "रीङ ऋतः"
७।४।२७
इत रीङ, यस्यति
६।४।१४८
लोपः॥
बाल-मनोरमा
पितुर्यच्च
१४३७, ४।३।७९
पुतुर्यच्च। यति प्रक्रियां दर्शयति--रीञ्ङृत इति।