सूत्रम्
महाराजाट्ठञ्॥ ४।३।९७
काशिका-वृत्तिः
महाराजाट् ठञ् ४।३।९७
महाराजशब्दात् ठज् प्रत्ययो भवति सो ऽस्य भक्तिः इत्येतस्मिन् विषये। अणो ऽपवादः। महाराजो भक्तिरस्य माहाराजिकः। प्रत्ययान्तरकरणम् स्वरार्थम्।
न्यासः
महाराजट्ठञ्। , ४।३।९७
ननु च पूर्वसूत्रादेव ठगनुवर्तिष्यते, तेनापि हि महांराजिक इति सिध्यत्येव,
तत्कथं ठञ् प्रत्ययान्तरं क्रियते? इत्याह-- "प्रत्यययान्तरकरणम्" इत्यादि। ञित्स्वरेणाद्युदात्तत्वं यथा स्यादिति प्रत्ययान्तरकरणम्। ठकि हि सति तद्धितस्य "कितः"
६।१।१५९ इत्यन्तोदात्तत्वं स्यात्॥
बाल-मनोरमा
सुधातुरकङ् च १०८१, ४।३।९७
सुधातुरकङ् च। चादिञिति। सुधातृशब्दात्षष्ठ()न्तादपत्येऽर्थे इञ्प्रत्ययः, प्रकृतेरकङादेशश्चेत्यर्थः। अकङो ङकार इत्, अकार उच्चारणार्थः। "ङिच्चे"त्यन्तादेशः। तदाह--सौधातकिरिति।
व्यासेति। व्यास, वरुड, निषाद, चण्डाल, बिम्ब-एभ्यश्च इञि प्रकृतेरकङादेश इत्यर्थः।
बाल-मनोरमा
महाराजाट्ठञ् १४५६, ४।३।९७
महाराजाट्ठञ्। "सोऽस्य भक्तिरित्यर्थे" इति शेषः। माहाराजिक इति। महाराजो भक्तिरस्येति विग्रहः।