सूत्रम्
समानतीर्थे वासी॥ ४।४।१०६
काशिका-वृत्तिः
समानातीर्थे वासी ४।४।१०७
साधुः इति निवृत्तम्। वासी इति प्रत्ययार्थः। समाऽनतीर्थशब्दात् तत्र इति सप्तमीसमर्थाद् वासि इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। समानतीर्थे वासी इति सतीर्थ्यः। समनोपध्यायः इत्यर्थः। तीर्थशब्देन इह गुरुरुच्यते।
न्यासः
समानतीर्थे वासी। , ४।४।१०६
वसतीति वासी। निपातनादेव णिनिः, ग्रहादिलक्षणो वा। अथ वा--- वसनं वासः, सोऽस्यास्तीति वासी, मत्वर्थीय इति। अथ "तत्र" (४।४।९८) इति वत्र्तमाने पुनः "समानतीर्थेट इति सप्तम्युपादानं किमर्थम्? प्रकृतित्वेनेष्ठात् सप्तम्यन्ताद्यथा स्यात्; अनिष्टान्मा भूत्। एतेन गुरुवचनो यस्तीर्थशब्दस्तदन्तात् सप्तमीसमर्थात् प्रत्ययो भवति, न तु यः प्रयोगादिवचनस्तदन्तात्। अमुमेवार्थं चेतसि कृत्वाऽऽह-- "तीर्थशब्देन गुरुरुच्यते" इति॥
बाल-मनोरमा
समानतीर्थे वासी १६३७, ४।४।१०६
समानतीर्थे वासी। समानतीर्थशब्दात्सप्तम्यन्ताद्वसतीत्यर्थे यत्स्यादित्यर्थः। वसतीति वासीति। ग्रह्रादेराकृतिगणत्वाण्णिनिः। तीर्थशब्दस्य विवरणं-गुराविति। सतीथ्र्य इति। समानतीर्थशब्दाद्यति "तीर्थे ये" इति समानस्य सभावः।
तत्त्व-बोधिनी
समानतीर्थे वासी १२६२, ४।४।१०६
समानतीर्थे वासी। निपातनाण्णिनिः, ग्रहादेराकृतिगणत्वान्नन्दिग्रहीत्यनेन वा। सतीथ्र्य इति। "तीर्थे ये"इति सभावः। तरन्त्यनेनेति तीर्थम्। "तरतेस्थक्"। "तीर्तं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु। योनौ जलावतारे चे"ति वि()आः। इह तूपाध्यायवाचिन एव ग्रहणं, नाऽन्यस्य, संज्ञाधिकारात्।