अग्रशब्दात् यत् घच्छौ च प्रत्यया भवन्ति तत्र भवः इत्येतस्मिन् विषये। अग्र्यम्, अग्रियम्, अग्रीयम्। चकारः तुग्राद् घन्
४।४।११४ इत्यस्य अनुकर्षणार्थः। अग्रियम्। स्वरे विशेषः।
"स्वरे विशेषः" इति। घे विहितेऽन्तोदात्तत्वं स्यात्, घनि तु सत्याद्युदात्तत्वं भवति॥