कुलत्थशब्दात् ककारोपधात् शब्दाच् च प्रातिपदिकादण् प्रत्ययो ह्बवति संस्कृतम् इत्येतस्मिन् विषये। ठको ऽपवादः। कुलत्थैः संस्कृतम् कौलत्थम्। ककारोपधात् तैत्तिडीकम्। दार्दभकम्।
कुलत्थकोपधादण्। "संस्कृतमित्यर्थे तृतीयान्ता"दिति शेषः। तैन्तिणीकमिति। तिन्तिणीकेन संस्कृतमित्यर्थः।