सूत्रम्
अण् महिष्यादिभ्यः॥ ४।४।४८
काशिका-वृत्तिः
अण् महिष्यादिभ्यः ४।४।४८
महिषी इत्येवम् आदिभ्यः अण् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। महिस्याः धर्म्यम् माहिषम्। प्राजावतम्। महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः।
न्यासः
अण् महिष्यादिभ्यः। , ४।४।४८
बाल-मनोरमा
अण्महिष्यादिभ्यः १५७७, ४।४।४८
अण् महिष्यादिभ्यः। "षष्ठ()न्तेभ्यो धम्र्यमित्यर्थे" इति सेषः।