पूर्वम्: ४।४।८४
अनन्तरम्: ४।४।८६
सूत्रम्
अन्नाण्णः॥
४।४।८५
काशिका-वृत्तिः
अन्नाण् णः
४।४।८५
अन्नशब्दात् तदिति द्वितीयासमर्थात् लब्धा इत्येतस्मिनर्थे णः प्रत्ययो भवति। अन्नं लब्धा आन्नः।
न्यासः
अन्नाण्णः।
, ४।४।८५
बाल-मनोरमा
अन्नाण्णः
१६१७, ४।४।८५
अन्नाण्णः। "लब्धेत्यर्थे द्वितीयान्ता"दिति शेषः।