पूर्वम्: ४।४।९०
अनन्तरम्: ४।४।९२
 
सूत्रम्
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्य- वध्यानाम्यसमसमितसम्मितेषु॥ ४।४।९१
काशिका-वृत्तिः
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस् तार्यतुल्यप्राप्यवध्याऽनाम्यसमसमितसंमितेषु ४।४।९१

नावाधिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्वेव तार्यादिष्वर्थेषु यथासङ्ख्यं यत् प्रत्ययो भवति। प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर् लभ्यते। नावा तार्यम् नव्यम् उदकम्। नव्या नदी। शक्यार्थे कृत्यः। वयसा तुल्यः वयस्यः सखा। संज्ञाधिकारो ऽभिधेयनियमार्थः। तेन वयसा तुल्ये शत्रौ न भवति। धर्मेण प्राप्यं धर्म्यम्। ननु च धर्मादनपेते इति वक्ष्यमाणेन एव सिद्धम्? न एतदस्ति। धर्मं यदनुवर्तते तद् धर्मादनपेतम् इत्युच्यते। फलं तु धर्मादपेत्येव, कार्यविरोधित्वाद् धर्मस्य। विषेण वध्यः विष्यः। विषेण वधम् अर्हति इत्यर्थः। मूलेन आनाम्यम् मूल्यम्। आनाम्यम् अभिभवनीयम्। पटादीनाम् उत्पत्तिकारणं मूलं तेन तदभिभूयते शेषीक्रियते। मूलं हि सगुणं मुल्यं करोति। पोरदुपधात् ३।१।९८ इति यति प्राप्ते आनाम्यम् इति निपातनात् ण्यत्। मूलेन समः मूल्यः पटः। उपदानेन समानफलः इत्यर्थः। सीतया समितं सीत्यम् क्षेत्रम्। समितं सङ्गतम् इत्यर्थः। रथसीताहलेभ्यो यद् विधौ इति तदन्तविधिरपि इष्यते। परमसीत्यम्। उत्तरसीत्यम्। द्विसीत्यम्। त्रिसीत्यम्। तुल्या संमितं तुल्यम्। संमितं समानं, सदृशम् इत्यर्थः। यथा तुला परिच्छिनत्ति परम् एवं तदपि इति।
लघु-सिद्धान्त-कौमुदी
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ११३७, ४।४।९१

नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यं धर्म्यम्। विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेन समो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितम् तुल्यम्॥
न्यासः
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवद्ध्यानाम्यसमसमितसम्मितेषु। , ४।४।९१

कथं पुनरिहापि समर्थविभक्तिर्लभ्यते? यावता नेहोपात्ता, नाप्यनुवत्र्तत इत्याह--"प्रत्ययार्थद्वारेण" इत्यादि। द्वारम् = उपायः, कारकमित्यर्थः। इह तार्यादयः प्रत्ययार्थाः। तत्सम्बन्धे कत्र्तरि करणे हेतौ तुल्यार्थयोगे च यथासम्भवं तृतीयैव भवति। ततः समर्थविभक्तिर्लभ्यते। "नाव्यम्" इति। "वान्तो यि प्रत्यये" ६।१।७६ इत्यवादेशः। अत्र नावस्तरणक्रियायां कर्त्तृत्वं करणत्वञ्च विवक्षावशाद्भवतीति करणे कत्र्तरि वा तृतीया। एवमन्यत्रापि यथायोगं वेदितव्यम्। "धर्मेण प्राप्यं धम्र्यम्" इति। तत्पुनर्धर्मस्य फलं स्वर्गाद्युच्यते। "ननु च" इत्यादि। ननु च धर्मेण यत्प्राप्यं तद्धर्मादनपेतं भवतीति भावः। "विध्यः" इति। विषेण वधमर्हतीत्यर्थः। वध्यशब्दस्य "दण्डादिभ्यो यः" ५।१।६५ इत्यर्हार्थे व्युत्पादितत्वात्। "आनाम्यमभिभवनीयम्" इति। अनेकार्थत्वाद्धातूनामत्र नमिरभिभवे वत्र्तते। "पटादीनामुत्पत्तिकारणं मूलम्" इति। दत्तेन हिरण्येन पटादीनामुत्पत्तिर्भवति। "तेन" इति। मूलेन। "तत्" इति। मूल्यम्"। "शेषीक्रियते" इति। अनेनाभिभूयत इत्यस्यार्थमाचष्टे। शेषीक्रियते = गुणभावमापाद्यते, अप्रधानीक्रियत इत्यर्थः। अप्रधानीकरणेव अभिभवः। कथं पुनस्तेन तच्छेषीक्रियते? इत्याह-- "मूल्यं हि" इत्यादि। हिशब्दो हेतौ। मूल्यमिह कर्त्तृ, मूलं कर्म। तत्प्रणयेन हिरण्येन पटादयो विक्रीयन्ते। तत्र यन्मूलातिरिक्तं हिरण्यं लाभः, तन्मूल्यं गुणो भावः। सह तेन वत्र्तत इति सगुणः। गुणः पुनरिह तदेव मूल्यं वेदितव्यम्। तदेतदुक्तं भवति-- यस्मान्मूल्यभागेनैव भागभूतेन सभागं मूलं करोति न न्यूनं तन्मूल्यमभिधीयत इति। मूल्ये सति तत् तत्र द्विगुणं करोतीत्युच्यते। का पुनरियं युक्तः, यदि नाम सगुणं मूलं करोतीत्युच्यते तत् कथं मूल्यमभिभूयते? यतेयं युक्तिस्तदाख्यायते-- इह हि शास्त्रे यत्सिद्धमुपकारि तदङ्गमप्रधानम्, यच्चोपकारसाध्यमनुपकारकं तदङ्गि प्रधानमित्येषा व्यवस्था। तथा चोक्तम्--- शास्ते द्व्यमेवेह स्यादङ्गमथ वा भवेदङ्गि तत्र। उपकारि सिद्दमङ्गं साध्यानुपकारकमङ्गीति॥ इति॥ एवञ्च मूल्येन मूलं सगुणं क्रियामाणमुपकार्यत्वात् प्रधानं सम्पद्यते, मूल्यं त्वनुपकार्यत्वादप्रधानं सम्पद्यते। तन्मूलेन मूल्यमभिभूयते, तदपेक्षया तस्याः प्रधानभावापत्तेः। "तुलया सम्मितं तुल्यम्" इति। अत्र तुल्यार्थयोगे तृतीया। यद्यपि तुल्यार्थयोगे षष्ठ()पि विधीयते,तथापि नौप्रभृतिभ्यस्तृतीयासमर्थेभ्यः प्रत्ययविधानात् तुलाशब्दादपि तृतीयासमर्थादेव प्रत्ययो विज्ञायते। "यथा" इत्यादिना तुलया सादृश्यं दर्शयति। ननु च "तुल्यास्यप्रयत्नम्" १।१।९ इति निपातनादेव तुल्यशब्दस्य साधुत्वं भविष्यति, स च सदृश एव लोके प्रसिद्ध इति नार्थस्तुलाशब्दात् सम्मिते प्रत्ययविधानेन? स्वरार्थं तु प्रत्ययविधानात्। "यतोऽनावः" ६।१।२०७ इत्याद्युदात्तत्वं यथा स्यात्। न हि निपातने सत्याद्युदात्तत्वं तुल्यशब्दस्य शक्यते विज्ञातुम्॥
न्यासः
धर्मपथ्यर्थन्यायादनपेते। , ४।४।९१

"निर्देशादेव पञ्चमी समर्थविभक्तिः" इति। यद्येवम्, "धुरो यड्ढकौ" (४।४।७७) इत्येवमादावपि निर्देशादेव समर्थविभक्तिर्विज्ञेया? नैष दोषः; तत्र हि द्वितीया समर्थविभक्तिः। एवं ज्ञानं स्यात्--- द्वितीयानुवृत्तिरपार्थिका स्यात्। इह तु न काचिद्विभक्तिरनुवत्र्तते, पञ्चमी च सूत्रे श्रूयते। तस्मात् सैव समर्थविभक्तिरनुकल्पयितुं युक्ता॥ ४।४।९२
बाल-मनोरमा
नौवयोधर्मविषमूलमूलसीतातुलाभ्यास्तार्यतुल्यप्राप्तबध्याऽ‌ऽनाम्यसमसमितसंमितेषु १६२३, ४।४।९१

नौवयोधर्म। "नौ, वयस्, धर्म, विष, मूल, सीता, तुला एभ्योऽष्यभ्यः क्रामात्तार्ये, तुल्ये, प्राप्ये, वध्ये, आनाम्ये, समे, समिते, संमिते चार्थे यत्स्यादित्यर्थः। "तृतीयान्तेभ्य" इत्यर्थाद्गम्यते। तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव संभवात्। अत्र मूलशब्दयोर्यथासङ्ख्याप्रवृत्तये नैकशेषः। अन्यथा सप्तानां प्रकृतीनाम् एकैकस्या अष्टस्वप्यर्थेषु प्रत्यय इति भ्रमः स्यात्। तार्यमिति। तरीतुं शक्यमित्यर्थः। "ऋहलोण्र्यत्"। वयसा तुल्य इति। मित्रे एवायं प्रत्ययो, नतु शत्रौ, संज्ञार्धिकारात्। मूलेनानाम्यमिति। पटादेरुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यं मूलम्। तेन सह यदधिकं द्रव्यम् आनम्यते=विक्रेतुः संमतीकरणेन लभ्यते तन्मूल्यमित्यर्थः। लोकास्तु विक्रेतुर्लब्धं सर्वं द्रव्यं मूल्यमिति व्यवहन्ति। तत्र लक्षणा बोध्या। सा च सांप्रतिकी, निरूढा वा। सीतयेति। सीता लाङ्गलपद्धतिः। तया समितं=सङ्गतमित्यर्थः। कृष्टमिति यावत्। तुला=धटा, तया उन्मितमित्यर्थः।

तत्त्व-बोधिनी
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यबध्याऽ‌ऽनाम्यसमसमितसंमितेषु १२५०, ४।४।९१

नौवयोधर्म। नावादिभ्यो यथासङ्ख्यं तार्यादिष्वष्टस्वर्थेषु यत्स्याते। इह तार्यादियोगे यथासम्भवं करणे कर्तरि हेतौ तुल्यार्थयोगे च तृतीया भवतीति सैवेह समर्थविभक्तिरर्थाल्लभ्यते। अत्र प्रथमं मूलान्तानां पञ्चानां द्वन्द्वं कृत्वा द्वितीयमूलादिद्वन्द्वेन सह समाहारद्वन्द्वः। मूलान्तानां द्वित्राणां वा मूलादीनामेव वा द्वन्द्वं कृत्वा नावादिषु द्वन्द्वः। तेन सारुप्याऽभावादेकशेषो न भवति। नावा तार्यमिति। शक्यार्थे "ऋहलोण्र्यत्"। करणे तृतीया। वयस्य इति। "रिउआग्धो वयस्यः सवयाः"इत्यमरः। "वयसा तुल्यः शत्रु"रित्यत्र तु न भवति। संज्ञाधिकारात्। विषेण वध्य इति। विषेण वधमर्हतीत्यर्थः। "दण्डादिभ्यः"इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात्। मूलेनाम्यमिति। मूलं नाम पटादीनामुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यम्। तेन स्वस्मादतिरिक्तं लाभाक्यं यद्द्रव्यमात्मानं प्रति शेषीक्रियते=आत्मन उपकारकं क्रियते , तत् ---आनाम्यम्। आङ्पूर्वको नमिरभिभवे वर्तते, तस्मात् "पोरदुपधा"दिति यति प्राप्ते अतएव निपातनाण्ण्यत्। तथा चानाम्यमभिभवनीयम्ात्मानं प्रति शेषीकर्तव्यम्। स च लाबाख्यो भाग एव।लोके तु यावता द्रव्येण पटादिकं विक्रीयते तत्रैव समुदाये मूल्यशब्दः प्रसिद्धो, न तु मूलातिरिक्तभागमात्रे। एवं च लाभमात्रे व्युत्पादितस्य मूल्यशब्दस्यच तद्धटिते सङ्घाते निरूढलक्षणा बोध्या। सीतेति। सीता=हलाग्रं। सम्पूर्वादिणः क्तः। समितं=सङ्गतं, निम्नोन्नता दिरहितं कृतमित्यर्थः। समीकृतमिति यावत्। "रथसीताहलेभ्यो यद्विधौ" इति तदन्तविधिः। परमसीत्यम्। द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत्। द्विसीत्यम्। तुलया संमितमिति। संमितं=परिच्छिन्नम्। रूढिशब्दोऽयं "संज्ञाया"मित्यधिकारात्। अतएव "तुल्य"मिति सदृशमात्रे प्रयुज्यते, न तु तुलायामागद्रहः क्रियते।