पूर्वम्: ५।१।११४
अनन्तरम्: ५।१।११६
 
सूत्रम्
तत्र तस्येव॥ ५।१।११५
काशिका-वृत्तिः
तत्र तस्य इव ५।१।११६

तत्र इति सप्तमीसमर्थात् तस्य इति षष्ठीसमर्थाच् च इवार्थे वतिः प्रत्ययो भवति। मथुरायाम् इव मथुरावत् स्रुघ्ने प्राकारः। पाटलिपुत्रवत् साकेते परिखा। षष्थीसमर्थात् देवदत्तस्य इव देवदत्तवत् यज्ञादत्तस्य गावः। यज्ञदत्तस्य इव यज्ञदत्तवत् देवदत्तस्य दन्ताः।
लघु-सिद्धान्त-कौमुदी
तत्र तस्येव ११५५, ५।१।११५

मथुरायामिव मथुरावत् स्रुग्ध्ने प्रकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः॥
न्यासः
तत्र तस्यैव। , ५।१।११५

अथ कियर्थमिवेत्युच्यते, न वत्यर्थे सादृश्ये भविष्यति? भविष्यति? नैतदस्ति; न हि तुल्यग्रहणं शक्यमिहानुवत्र्तयितुम्()। तद्धि क्रियाविशेषणत्वात्? कर्म, तत्र यदीह तस्यानुवृत्तिः स्यात्? तथाभूतस्यैव स्यात्()। ततश्च कर्मण्येव तुल्ये प्रत्ययः स्यात्, तथा च--मथुरायामिव मथुरावत्? स्लुध्ने प्रासाद इत्यादि न सिध्येत्()। तस्मादिवेति वक्तव्यम्()। अक्रियार्थश्चायमारम्भः॥
बाल-मनोरमा
तत्र तस्येव १७५६, ५।१।११५

तत्र तस्येव। तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात्षष्ठ()न्ताच्च वतिः स्यादित्यर्थः। अतृतीयान्तार्थ आरम्भः। अस्मादेव निर्देशादिवशब्दयोगे षष्ठ()र्थे सप्तम्यपीति भाष्यम्। अत्र "क्रिया चे"दिति नानुवर्तते इत्यभिप्रेत्योदाहरति--मधुरायामिव मधुरावत्स्नुघ्ने प्राकार इति। अत्र मधुरायामिवेति नाधिकरणसप्तमी, तथा सति विद्यमानेति क्रियापदासपेक्षतया असामथ्र्यात्। अत एव अस्मादेव सूत्रनिर्देशादिवशब्दायोगे षष्ठ()र्थे सप्तमीति भाष्यं सङ्गच्छते। मधुरासम्बन्दिप्राकारसदृशः रुआउघ्नस्य प्राकार इति बोधः। मैत्रस्य भाव इति। वृत्तमित्यर्थः।

तत्त्व-बोधिनी
तत्र तस्येव १३५३, ५।१।११५

तत्र तस्येव। सप्तम्यन्तात् षष्ठ()न्ताच्च इवार्थे प्रत्ययः। "क्रिया चेत्िति नानुवर्तते इति द्रव्यादितुल्येऽत्र वत्प्रत्ययो भवति। मथुरावत्रुआउघ्ने इति। मथुरायां यादृशः प्राकारस्तेन तुल्यः प्राकारः स्नुघ्ने इत्यर्थः।