सूत्रम्
योपधाद्गुरूपोत्तमाद्वुञ्॥ ५।१।१३१
काशिका-वृत्तिः
यौपधाद् गुरूपोत्तमाद् वुञ् ५।१।१३२
त्रिप्रभृतीनाम् अन्तस्य समीपम् उपोत्तमम्। गुरुः उपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधात् गुरूपोत्तमाद् वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्। योपधातिति किम्? विमानत्वम्। गुरूपोत्तमातिति किम्? क्षत्रियत्वम्। सहायाद्वेति वक्तव्यम्। साहायकम्, साहाय्यम्।
न्यासः
योपधाट्गुरूपोत्तमाद्?वुञ्?। , ५।१।१३१
त्वतलादिषु प्राप्तेषु वुञ्विधीयते। उत्तमशब्दोऽयमिहाव्युत्पन्नं प्रातिपदिकं गृह्रते;
तत्स्वभावात्? त्रिप्रभृतीनामन्त्यमाहेति मत्वाऽऽह--"त्रिप्रभृतीनामन्त्यम्()" इत्यादि। तमप्रत्ययान्तस्य तु ग्रहणे सति "अणिओरनार्षयोः"
४।१।७८ इत्यादौ सुतारे यो दोष उक्तः, स इहापि तदनुसारेण वेदितव्यः। उत्तमस्य समीपमुपोत्तमम्(), "अव्ययं विभक्तिसमीप"
२।१।६ इत्यव्ययीभावः॥
बाल-मनोरमा
योपधाद्गुरूपोत्तमाद्वुञ् १७७४, ५।१।१३१
योपधात्। योपधाद्गुरूपोत्तमात्प्रातिपदिकात्षष्ठ()न्ताद्भावकर्मणोर्वुञित्यर्थः। रामणीयकमिति। रमणीयशब्दाद्वुञ्। आभिधानीयकमिति। अभिधानीयशब्दाद्वञ्।
सहायाद्वेति। "वु"ञिति शेषः। पक्षे ब्राआहृणादित्वात्ष्यञ्। इदंतु वार्तिकं भाष्ये क्वचिन्मृग्यम्।
तत्त्व-बोधिनी
योपधाद्गुरूपोत्तमाद्वुञ् १३६७, ५।१।१३१
योपधात्। गुरु उपोत्तमं यस्य प्रातिपदिकस्य तस्मादित्यर्थः। योपधात्किम्()। विमानतवम्। गुरुपोत्तमादिति किम्()। क्षत्त्रियत्वम्। आभिधानीयकमिति। अत्र प्रकृतिरभेः परोऽनीयर्()प्रत्ययान्तो दधातिः। अबिदेयस्य भावः कर्म वेत्यर्थः।
सहायाद्वा। सहायाद्वेति। सूत्रेण नित्ये प्राप्ते विकल्पार्थं वचनम्। द्वन्द्वमनोज्ञादिभ्यश्च। मनोज्ञ, प्रियरूप, बहुल , अवश्य, इत्यादिर्मनोज्ञादिः।