पूर्वम्: ५।१।२५
अनन्तरम्: ५।१।२७
 
सूत्रम्
शूर्पादञन्यतरस्याम्॥ ५।१।२६
काशिका-वृत्तिः
शूर्पादञन्यतरस्याम् ५।१।२६

शूर्पशब्दादन्यतरस्याम् अञ् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञो ऽपवादः। पक्षे सो ऽपि भवति। शूर्पेण क्रीतम् शौर्पम्, शौर्पिकम्।
न्यासः
शूर्पादञन्यतरस्याम्?। , ५।१।२६

"ठञोऽपवादः" इति। न ठकः, शूर्पशब्दस्य परिमाणवाचित्वात्()॥
बाल-मनोरमा
शूर्पादञन्यतरस्याम् १६६८, ५।१।२६

शूर्पादञ्। "आर्हीयेष्वर्थेष्वि"ति शेषः। शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादोऽञ् पक्षे विधीयते। पक्षे ठञ्।

तत्त्व-बोधिनी
शूर्पादञन्यतरस्याम् १२८८, ५।१।२६

शूर्पादञ्। शूर्पशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तदपवादत्वेनाऽञ् पक्षे विधीयते।