तस्य इति षष्ठीसमर्थाद् वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। उप्यते ऽस्मिन् वापः क्षेत्रम् उच्यते। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। खारीकम्।
तस्य वापः। अस्मिन्नर्थे षष्ठ()न्ताद्यथाविहितं टञादयः स्युरित्यर्थः। प्रास्थिकमिति। प्रस्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः। "आर्हा"दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीष्ठञ्। द्रौणिकमिति। निष्कादित्वाट्ठक्। खारीकमिति। खार्या ईकन्। द्रोणस्य खार्याश्च वाप इत्यर्थः।