सूत्रम्
मासाद्वयसि यत्खञौ॥ ५।१।८०
काशिका-वृत्तिः
मासाद् वयसि यत्खञौ ५।१।८१
मासशब्दाद् वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः। ठञो ऽपवादौ। अधीष्टादीनां चतुर्णाम् अधिकारे ऽपि सामर्थ्याद् भूत एव अत्र अभिसम्बध्यते। मासं भूतः मास्यः, मासीनः। वयसि ति किम्? मासिकम्।
न्यासः
मासाद्वयसकि यत्खञौ। , ५।१।८०
"सामथ्र्याद्भूत्? एवात्राभिसम्बध्यते" इति। वयसि भूतार्थस्यैव सम्भवादिति भावः। भाव्यर्थोऽपि तत्र सम्भवतीति चिन्त्यमेतत्()। अथ तु नेष्यते, पुनरभिधानं शरणमाश्रयितव्यम्()। खञो ञित्करणं स्वरार्थम्(), वृद्ध्यर्थञ्च।
ननु च वृद्ध एव मासशब्दः? सत्यं वृद्धोऽयम्(), तथापि वृद्धस्यापि वृद्धिरेषितव्या। मासीनाभार्य इति "वृद्धिनिमितस्य च तद्धितस्यारक्तविकारे"
६।३।३८ इति पुंवद्भावप्रतिषेदो यथा स्यात्()॥
बाल-मनोरमा
मासाद्वयसि यत्खञौ १७२२, ५।१।८०
मासाद्वयसि। अत्र भूत इत्येवानुवर्तते, व्याख्यानात्। मासशब्दाद्द्वितीयान्ताद्भूत इत्यर्थे यत्खञौ स्तो वयसि गम्ये इत्यर्थः।
तत्त्व-बोधिनी
मासाद्वयसि यत्खञौ १३३०, ५।१।८०
मासाद्वयसि। खञो ञित्करणं स्वरार्थं, पुवंद्भावप्रतिषेधार्थं च। मासीनाभार्यः। अधीष्टादीनां चतुर्णामधिकारेऽपि सामथ्र्याद्भूत इत्येतदत्र संबध्यते।न हि मासमधीष्टो भृतो वेत्याद्युक्तौ काचित्कालकृता शरीरावस्था गम्यत इत्याशयेनाह---मासं भूत इति। एतच्च वृत्तिपदमञ्जर्योः स्पष्टम्। मासीन इति। बालकः।