पूर्वम्: ५।२।४३
अनन्तरम्: ५।२।४५
 
सूत्रम्
उभादुदात्तो नित्यम्॥ ५।२।४४
काशिका-वृत्तिः
उभादुदात्तो नित्यम् ५।२।४४

उभशब्दात् परस्य तयपो नित्यम् अयजादेशो भवति, स चोदात्तः। वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते। उभशब्दो यति लौकिकी सङ्ख्या ततः पूर्वेण एव विहितस्य तयप आदेशविधानार्थं वचनम्। अथ न सङ्ख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यम् अयजादेशो विधीयते। उभयो मणिः। उभये ऽस्य देवमनुष्याः।
लघु-सिद्धान्त-कौमुदी
उभादुदात्तो नित्यम् ११७७, ५।२।४४

उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः। उभयम्॥
न्यासः
उभादुदात्तो नित्यम्?। , ५।२।४४

"वचनसामथ्र्यात्()" इत्यादि। यद्यन्तोदात्तः स्यादुदात्तवचनमनर्थकं स्यात्()। अयचि च कृते चित्स्वरेणैव "सतिशिष्टस्वरो बलीयान्()" (वा। ६।१।१५८) इत्यन्तोदात्तत्वस्य सिद्धत्वात्। आद्युदात्तत्वं ह्रन्यथा न सिध्यतीति तद्रथं क्रियसाणमर्थबद्वचनं भवतीति। "यदि लौकिको संख्या" इति। द्वित्रादिवत्()। पूर्वेण योगेन तययो विधानम्(), तस्यापरेण योगेन नित्यमयजादेशो विधीयते। "उभये देदमनुष्याः" इति। उभाववयवौ येषामित्युभये। कथं बहुत्वे देवमनुष्याणां द्वाववयवौ भवतः? यद्यप्यत्र बहुत्वमस्ति, द्वित्वमपि तु प्रातिपदिकयोरस्त्येव; अत्र हि द्वौ राशी समुदायस्यावयवौ--एको देवनां राशिः, अपरो मनुष्याणामित्यदोषः॥
बाल-मनोरमा
तदस्मिन्नधिकमिति दशान्ताड्डः १८२२, ५।२।४४

अथ मत्वर्थीयाः--तदस्मिन्नधिकं तदधिकमस्मिन्निति विग्रहे प्रथमान्ताद्दशन्शब्दान्तात्समासादस्मिन्नित्यर्थे डप्रत्ययः स्यादित्यर्थः। प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहम्। अत एव निर्देशात्पञ्चम्यर्थे सप्तमीत्याहुः। "औपश्लेषिकेऽधिकरणे सप्तमी"ति भाष्यम्। "सामीपिकमधिकरण"मिति कैयटः। एकादश माषा अधिका अस्मिन्निति। अस्मादित्यर्थः। अस्मिन् उपश्लिष्टा इति वा। न च व्यपदेशिवत्त्वे केवलदशन्शब्दादपि स्यादिति शङ्क्यं, व्यपदेशिद्भावोऽप्रातिपदिकेने"त्युक्तेः।

बाल-मनोरमा
उभादुदात्तो नित्यम् ५६९, ५।२।४४

उभादुदात्तो नित्यं। स चोदात्त इति। आद्युदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम्। अत्र "अयच्प्रत्यय एव विधीयते, नतु तयप आदेशः" इति स्थानिवत्सूत्रभाष्ये स्पष्टम्। "तयप आदेश" इति मूलं तु वार्तिकानुरोधेन।

**** इति बालमनोरमायाम् पाञ्चमिकाः। ****

अथ परस्मैपदप्रक्रिया।

अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते -- शेषात्कर्तरीति।

तत्त्व-बोधिनी
उभादुदात्तो नित्यम् १४०७, ५।२।४४

उभादुदात्तो नित्यम्। इह "चितः"इत्यनेनैवान्तोदात्तत्वं सिद्धं, सर्वोदात्तत्वं तु "अनुदात्तं पदमेकवर्ज"मिति वचनाद्वाधितम्। न च हे उभयेति संबुद्ध्()यन्ते आमन्त्रिताद्युदात्तत्वं बाधितुं वचनमिति शङ्क्यं, पुरस्तादपवादन्येन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात्। तस्मादुदात्तवचनसामथ्र्यादादेरेवायम्। प्रयुज्यते च तथा ---"उभयं श्रृणवच्च न"इति। तदेतत्सकलमभिप्रेत्याह---स चेति।