पूर्वम्: ५।२।९२
अनन्तरम्: ५।२।९४
 
सूत्रम्
तदस्यास्त्यस्मिन्निति मतुप्॥ ५।२।९३
काशिका-वृत्तिः
तदस्य अस्त्यस्मिन्निति मतुप् ५।२।९४

टतिति प्रथमा समर्थविभक्तिः। अस्य अस्मिनिति प्रत्ययार्थौ। अस्ति इति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। तदिति प्रथमासमर्थादस्य इति षष्ठ्यार्थे ऽस्मिन्निति सप्तम्यर्थे वा मतुप् प्रत्ययो भवति, यत् तत् प्रथमासमर्थम् अस्ति चेत् तद् भवति। अस्त्यर्थोपाधिकं चेद् तद् भवति इत्यर्थः। इतिकरणस् ततश्चेद् विवक्षा। गावो ऽस्य सन्ति गोमान् देवदत्तः। वृक्षाः अस्मिन् सन्ति वृक्षवान् पर्वतः। यवमान्। प्लक्षवान्। इति करणाद् विषयनियमः। भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने। संसर्गे ऽस्ति विवक्षायां भवन्ति मतुबादयः। भूम्नि तावत् गोमान्। निन्दायाम् कुष्ठी। ककुदावर्तिनी। प्रशंसायाम् रूपवती कन्या। नित्ययोगे क्षीरिणो वृक्षाः। अतिशायने उदरिणी कन्या। संसर्गे दण्डी। छत्री। अस्तिविवक्षायाम् अस्तिमान्। गुणवचनेभ्यो मतुपो लुग्वक्तव्यः। शुक्लो गुणो ऽस्य अस्ति शुक्लः पटः। कृष्णः। श्वेतः।
लघु-सिद्धान्त-कौमुदी
तदस्यास्त्यस्मिन्निति मतुप् ११८८, ५।२।९३

गावोऽस्यास्मिन्वा सन्ति गोमान्॥
न्यासः
तदस्यास्त्यस्मिन्निति मतुप्?। , ५।२।९३

"प्रत्ययार्थो" इति। ननु च यद्? यस्य भवति तत तस्मिन्नस्ति, यद्यस्मिन्नस्ति तत्? तस्य भवति, यथा--वृक्षे शाखा, वृक्षस्य शाखेति; तत्रान्यतरनिर्देशेनैव सिद्धम्(), तत्किमर्थं द्वौ निर्दिश्येते? नैतदस्ति; न हि षष्ठीसप्तम्यर्थयोरवश्यम्भावो समावेशः, तथा हि गावो गङ्गायां भवन्ति, न च ते तस्याः; तथा देशान्तरगतोऽपि पुत्रो देवदत्तस्य च भवति, न चासौ तत्र। तस्मादुभावपि निर्देष्टव्यौ। "अस्तीति प्रकृतिविशेषणम्()" इति। ननु च सम्भवे व्यभिचारे च विशेष्यविशेषणभावो भवति नीलोत्पलवत्(), न चास्तित्वस्य व्यभिचारोऽस्ति, यथोक्तम्()--"न सत्तां पदार्()थो व्यभिचरति" इति। तस्या व्यवच्छेद्याभावादपार्थकमिदं विशेषणम्()? नैतदस्ति; विशेषणोपादानसामथ्र्यादेव विशिष्टैव सत्ता विशेषणत्वेनोपात्ता, न सत्तामात्रमिति प्रतीयते। सा पुनर्विशिष्टसत्ता सप्प्रतिसत्तैव। अस्ति च तस्या व्यभिचार इति प्रसज्यत एव विशेष्यविशेषणभावः। किं पुनः सम्प्रतिसत्ता विशेषणत्वेनोपात्ता? तस्यामेव प्रत्ययो यथा स्यात्? भूतभविष्यत्सत्तायां मा भूदित्येवमर्थम्()। तेन गावोऽस्यासन्(), गावोऽस्य भवितार इत्यतर् न भवति। ननु च गोमानासीत, गोमान्? भवितेति भूतभविष्यत्सत्ताय#आ#ं मतुपं विधाय कथं प्रयुज्यते? नैष दोषः, धातुसम्बन्धेऽयथाकालोक्तानामपि प्रत्ययानां साधुत्वविधानादेवं प्रयुज्यचे; न भूतभविष्यत्सत्तायां प्रत्ययविधानात्()। "अस्त्यर्थोपाधिकं चेद्भवतीत्यर्थः" इति। वत्र्मानसत्ताविशिष्टं यदि तत्र भवतीत्यर्थः। "गोमान्()" इति। "उगिदचाम्()" ७।१।७० इति नुम्()। हल्ङ्यादिसंयोगान्तलोपौ। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्धः। "वृक्ष वान्()" इति "मादुपधायाश्च" ८।२।९ इत्यादिना वत्वम्()। "विषयनियमः" इति। विषये प्रत्ययस्य भावो विषयनियमः। स पुनर्विशिष्टविषयो भूमादिरिति दर्शयन्नाह--"भूमनिन्दा" इत्यादि। बहोर्भावो भूमा। "पृथ्वादिभ्य इमनिच्()" इतीमनिच्()। "बहोर्लोपो भू च वहोः" ६।४।१५८ इति भूभावः, इकारलोपश्च। गावो बहवोऽस्य सन्तीति गोमान्()। एकस्य द्वयोर्वा विद्यमानत्वेऽपि गोमानिति न व्यपदिश्यते। निन्दायां-ककुदावत्र्तीति। निष्फलत्वान्निन्दितः। प्रशंसायाम्()--प्रशस्तं रूपं यस्यास्ति रहूपवानित्युच्यते। नित्ययोगे-क्षीरमेषामस्तीति क्षीरिणो वृक्षाः। नित्यः क्षीरसम्बन्धो येषां त उच्यन्ते। "अतिशायने उदरिणी कन्या" इति। यस्या अतिशयेनोदरमस्ति सैवमुच्यते। "संसर्गे दण्डी" इति। दण्डसंसर्ग उच्यते। तेनेह गृहस्थिते विद्यमानेऽपि दण्डे दण्डीति नाभिधीयते॥
बाल-मनोरमा
तदस्यास्त्यस्मिन्निति मतुप् १८६९, ५।२।९३

तदस्यास्त्यस्मिन्निति मतुप्। तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्मि समानाधिकरणात्प्रथमान्तादस्य अस्मिन्निति चार्थे मतुप्स्यादित्यर्थः। उपावितौ। इतिशब्दो विषयविशेषलाभार्थः। तदाह--भूमनिन्देति। श्लोकवार्तिकमिदम्। भूमा=बहुत्वम्। यथा गोमान्, यवमान्। निन्दायां-ककुदावर्तिनी कन्या। प्रशंसायां-रूपवान्। नित्ययोगे--क्षीरिणो वृक्षाः। अतिशायने-उदरिणी कन्या। संसर्गे-दण्डी। छत्री। वृत्तिनियामकः संसर्गविशेषो विवक्षितः। तेन "परुषी दण्ड" इति नास्ति।

तत्त्व-बोधिनी
तदस्यास्त्यस्मिन्निति मतुप् १४३९, ५।२।९३

तदस्यास्त्यस्मिन्नति मतुप्। "त"दिति प्रथमासमर्थात्प्रत्ययः। अस्तीति पुरुषवचने अविवक्षिते, कालस्तु विवक्षितः, धने गते बाविनि वा "धनवानय"मिति प्रतीत्यभावात्। इति शब्दो विषयविशेषलाभार्थः।

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।"भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायेन। संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः"। अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः। भूमा---बहुत्वम्। तच्चापेक्षिकम्। यस्य हि यावदुचितं तावदेव बहुत्वबोधकबहुशब्देनापि प्रतीयते। तथा पञ्चषाभिरपि गोभिर्देवदत्तस्य "बह्व्यो गाव"इति व्यवहारः। राज्ञस्तु सहरुआगोरपि गावोऽल्पा इति व्यवहारः। गोमान्। यवमान्। यस्य खार्यादिभिः परिच्छिन्ना यवाः सन्ति स एवमुच्यते। नतु सहरुओणापि यवैर्यवमानिति। कथं तर्हि "यवमतीभिरद्भिर्यूपं प्रोक्षति"---इति()। अत्राहुः---जातिमात्रसम्बन्धस्य विवक्षितत्वाद्भूमाऽभावेऽप्यत्र मतुप्। भूमादिग्रहणं तु प्रायेण भूमादयः प्रतीयन्त इत्येवंपरमिति। निन्दायां---ककुदावर्तिनी कन्या। प्रशंसायां---रूपवान्। नित्ययोगे----क्षीरिणो वृक्षाः। अतिशायेन---उदरिणी कन्या। संसर्गे---दण्डी। संसर्गः=संयोगः। तेन संयुक्तदम्ड एवोच्यते, न तु गृहावस्थितदण्डोऽपि। इह दण्डपुरुषयोः संयोगे सत्यपि "दण्डी पुरुष"इत्यादिवत् "पुरुषी दण्डः" "पुरुषवान्दण्डः"इति न प्रयुज्यते, वृत्तिनियामकस्य विलक्षणसम्बन्धस्याऽभावात्। संयोगे समानेऽपि प्रतीतिबलाद्वैलक्षण्यं कल्प्यत इत्याहुः। एवं च यवसंयोगमात्रेण यवमत्य आपो न भवन्ति, किं तु यवमज्जलवच्च पात्रमेवेत्याशयेन "कथं यवमतीभिरद्भिः" इत्याक्षेफो, "भूमादिग्रहणं प्रायिक"मित्याद्युत्तरं च सङ्गच्छत एव।