पूर्वम्: ५।३।४१
अनन्तरम्: ५।३।४३
 
सूत्रम्
संख्याया विधाऽर्थे धा॥ ५।३।४२
काशिका-वृत्तिः
सङ्ख्याया विधार्थे धा ५।३।४२

सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमाणेभ्यो धा प्रत्ययो भवति स्वार्थे। विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते। क्रियप्रकारे वर्तमानायाः सङ्ख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्धा। पञ्चधा।
न्यासः
संख्याया विधार्थे धा। , ५।३।४२

"प्रकारवचने च जातीयर्()" ५।३।६९ इति, तस्यायमपवादः। "विधा=प्रकारः" इत्यक्तः "प्रकारवचने थाल्()" ५।३।२३ इत्यत्र, स च द्रव्यगुणविशेषोऽप्यस्ति; तत्र यदि सोऽपि गृह्रेत द्रव्यगुणयोर्लिङ्गसंख्याभ्यां यीगाद्वा प्त्ययान्तमलिङ्गमसंख्यं च न स्यात्()। एवञ्च तस्याव्ययत्वं न स्यात्(), तच्चेष्टम्(); तथा हि--धाप्रत्ययोऽव्ययेषु पठ()ते--तसिलादिस्तद्धित एधाच्पर्यन्त इति। क्रियाविषये तु तस्मिन्? गृह्रमाणे न दोषः; क्रियायाः सर्वदा लिङ्गसंख्याभ्यामयोगादित्येतत्? चेतसि कृत्वाऽ‌ऽह--"स च" इत्यादि। क्रियाधातुवाच्यो विक्लेदनादिरर्थः, स च विषयोऽस्य स तथोक्तः। कथं पुनः सामान्योक्तौ विशेषस्य ग्रहणं लभ्यते? अर्थग्रहणस्य ह्रेतदेव प्रयोजनम्()--प्रकारविशेषणं यथा स्यादिति, अन्यथा हि "विधायाम्()" इत्येवं हि ब्राऊयात्()। यदि तर्हि प्रकारः क्रियाविषयो गृह्रते, नवधा द्रव्यम्? नदधा गुण इत्यत्र न प्राप्नोति? नैष दोषः? अत्रापि क्रियाऽव्याहत्र्ततव्या। नवधा द्रव्यम्(), नवधा गुण उपपाद्य विगृह्रते चेति॥
बाल-मनोरमा
सङ्ख्याया विधार्थे धा , ५।३।४२

सङ्ख्याया विधार्थे धा। विधाशब्दस्याऽर्थः प्रकारो विधार्थः। "विधा विधौ प्रकारो विधार्थः। "विधा विधौ प्रकारे चे"त्यमरः। सामान्यस्य भेदको विशेषः-प्रकारः। सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते। तदाह--क्रियाप्रकारेति। चतुर्धापञ्चधेति। "गच्छती"त्यादि क्रियापदमध्याहार्यम्। चतुष्प्रकारा गमनादिक्रियेति बोधः। "नवधा द्रव्य"मित्यादावपि "भवती"त्यादि क्रियापदमध्याहार्यम्।

तत्त्व-बोधिनी
सङ्ख्याया विधार्थे धा १४८८, ५।३।४२

सङ्ख्याया विधार्थे धा। विधाशब्दस्याऽर्थो विधार्थः। यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते तथापीह न गृह्रते। तेन एका गोविधेत्यादौ न भवति। इह हि "विधाया"मिति वक्तव्ये अर्थग्रहणस्य प्रयोजनं--विधाशब्दो यत्रार्थे प्रसिद्धतरस्तत्रैव यथा स्यात्। तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्रते, अभिदानस्वभावात्। तदाह---क्रियाप्रकारे वर्तमानादिति। कथं तर्हि "नवधा द्रव्यं," बहुधा गुणः" इत्यादि()। अत्रापि ह्रश्रुता क्रिया प्रतीयते "उपदिश्यते इति वा"इति हरदत्तः।