पूर्वम्: ५।३।४५
अनन्तरम्: ५।३।४७
 
सूत्रम्
एधाच्च॥ ५।३।४६
काशिका-वृत्तिः
एधाच् च ५।३।४६

द्वित्र्योः सम्बन्धिनो धाप्रत्ययस्य एधाचादेशो भवत्यन्यत्रस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा, द्वैधम्, द्विधा। त्रेधा, त्रैधम्, त्रिधा।
न्यासः
एधाच्च। , ५।३।४६

बाल-मनोरमा
एधाच्च , ५।३।४६

एधाच्च। द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः। "पञ्चम्यास्तसि"लित्यारभ्य "एधाच्चे"त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम्।

तत्त्व-बोधिनी
एधाच्च १४९१, ५।३।४६

एधाच्च। द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात्। योगविभागो यथासङ्ख्यनिरासार्थः।