पूर्वम्: ५।३।५५
अनन्तरम्: ५।३।५७
 
सूत्रम्
तिङश्च॥ ५।३।५६
काशिका-वृत्तिः
तिङश् च ५।३।५६

तिङन्तात् च अतिशायने द्योत्ये तमप् प्रत्ययो भवति। ङ्याप्प्रातिपदिकात् ४।१।१ इत्यधिकारात् तिङो न प्राप्नोति इति इदं वचनम्। सर्वे इमे पचन्ति इति, अयम् एषाम् अतिशयेन पचति पचतितमाम्। जल्पतितमाम्। इष्ठन्नोदाह्रियते, गुणवचने तस्य नियतत्वात्।
लघु-सिद्धान्त-कौमुदी
तिङश्च १२२२, ५।३।५६

तिङन्तादतिशये द्योत्ये तमप् स्यात्॥
न्यासः
तिङ्श्च। , ५।३।५६

"पचतितमाम्()" इति। "किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे" ५।४।११ इत्याम्()। "गुणवचने" इत्यादि। इष्ठनोऽनुदाहरणे हेतुः। "अजादी गुणवचनादेव" ५।३।५८ इति नियम इति, तत एव तेन भवितव्यम्()। न च तिङ्न्तो गुणवचनः, अतो नासावुदाह्यियते॥
बाल-मनोरमा
तिङश्च , ५।३।५६

तिङश्च। अत्राऽप्रातिपदिकत्वादप्राप्ते वचनम्। तमप्स्यादिति। "अजादी गुणवचनादेवे"ति नियमादिष्ठन्नानुवर्तत इति भावः।

बाल-मनोरमा
ह्यस्वे , ५।३।५६

ह्यस्वे। ह्यस्वत्वविशिष्ठे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः। अल्पत्वं--महत्त्वप्रतिद्वन्द्वि, ह्यस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः।

तत्त्व-बोधिनी
तिङश्च १४९८, ५।३।५६

तिङश्च। अस्मादिष्ठन्न भवति, "अजादी गुणवचनादेवे"ति नियमादित्याशयेनाह--तमप् स्यादिति।

तत्त्व-बोधिनी
ह्यस्वे १५२३, ५।३।५६

ह्यस्वे। तैलादौ ह्यस्वदीर्घादिव्यवहाराऽबावाद्वृक्षक इत्युदाह्मतम्। यद्यपि "अल्पे"इत्यनेनैवेदं रूपं सिध्यति ततापि शाब्दबोदे विशेषोऽस्तीत्याहुः।