पूर्वम्: ५।३।७
अनन्तरम्: ५।३।९
 
सूत्रम्
तसेश्च॥ ५।३।८
काशिका-वृत्तिः
तसेश् च ५।३।८

प्रतियोगे पञ्चम्यास् तसिः ५।४।४४ , अपादाने च अहीयरुहोः ५।४।४५ इति वक्ष्यति। तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति। कुत आगतः। यतः। ततः। बहुत आगतः। तसेस् तसिल्वचनं स्वरार्थं विभक्त्यर्थं च।
न्यासः
तसेश्च। , ५।३।८

"कुत आगत" इति। "अपादाने चाहीयरुहोः" (५।४।४५) इति परत्वात्? तसौ कृते तस्यानेन तसिल्()। ननु च कृतेऽपि तसिलि तदेव रूपम्(), तत्किमर्थमादिश्यते? इत्याह--"तसेस्तसिल्ववचनम्()" इत्यादि॥
बाल-मनोरमा
तसेश्च १९३०, ५।३।८

तसेश्च। परस्य तसेरिति। "प्रतियोगे पञ्चम्यास्तसिः" "अपादाने चाहीयरुहो"रिति वक्ष्यमाणस्य तसेरित्यर्थः। ननु तसेस्तसिल्किमर्थमित्यत आह--स्वराथमिति। लित्स्वरार्थमित्यर्थः। विभक्त्यर्थमिति। विभक्तिनिमित्तकत्यदाद्यत्वार्थमित्यर्थः। अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद्विभक्तित्वाऽभावात्त्यदाद्यत्वादिकं न स्यादित्यर्थः।