पूर्वम्: ५।४।१०
अनन्तरम्: ५।४।१२
 
सूत्रम्
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे॥ ५।४।११
काशिका-वृत्तिः
किमेत्तिङव्ययघादांवद्रव्यप्रकर्षे ५।४।११

किम एकारान्तात् तिङन्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङव्ययघः, तदन्तात् प्रातिपदिकातद्रव्यप्रकर्षे आमुप्रत्ययो भवति। यद्यपि द्रव्यस्य स्वतः प्रकर्षो न अस्ति, तथा अपि क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदा ऽयं प्रतिषेधः। क्रियागुणयोरेव अयं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वाह्णेतराम्। पूर्वाह्णेतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्तमाम्। अद्रव्यप्रकर्षे इति किम्? उच्चैस्तरः। उच्चैस्तमः।
लघु-सिद्धान्त-कौमुदी
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे १२२४, ५।४।११

किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे। किन्तमाम्। प्राह्णेतमाम्। पचतिमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः॥
न्यासः
किमेत्तिह्व्ययघादाभ्वद्रव्यप्रकर्षे। , ५।४।११

"अद्रव्यप्रकर्षे" इति। ननु च द्रव्यस्य न प्रकर्षोऽस्ति; तथा च भाष्ये उक्तम्()--"न वै द्रव्यस्य प्रकर्षोऽस्ति" इति, अतः प्रतिषेधोऽनर्थकः? इत्यत आह--"यद्यपि" इत्यादि। दृश्यते चाधेयधर्मस्याधार उपचारः, यथा--मञ्चाः ऋशन्तीति। तस्मादाधाराधेययोः क्रियागुणयोर्धर्मः प्रकर्षः। स यदाधारद्रव्य उपचर्यते तदासौ द्रव्यधर्मत्वादुपचारेण द्रव्यधर्मो भवति। अतोऽयं प्रतिषेधः क्रियते। "क्रियागुणयोरेव" इत्यादि। क्रियाया गुणस्य प्रकर्षो यदा द्रव्ये नोपचयंते क्रियागुणयोरेव प्रकर्षः, तत्रैव प्रत्ययः। यदि तु द्रव्ये उपचर्यते ततो द्रव्यप्रकर्ष इति वचनात्()। "किन्तराम्()" इति। वस्तुनो बहवो विशेषाः, तत्र प्रश्नः किंशब्दार्थः। "पूर्वाह्णेतराम्()" इति। "घकालतनेषु कालानाम्नः" ६।३।१६ इति सम्पम्या अलुक्()। ननु च पूर्वाह्णः कालः, कालश्च द्रव्यम्(), द्रव्यप्रकर्षे प्रत्ययेन न भवित्व्यम्(); अद्रव्यप्रकर्ष इति प्रतिषेधात्()? नैव दोषः; न ह्रत्र प्रातिपदिकार्थः प्रकर्षे वत्र्तते, किं तर्हि? विभक्त्यर्थः, स च गुम एव; द्रव्यशक्तिस्वरूपत्वात्? कारकाणाम्()। अथ वा--वचनसामथ्र्यात्? कालप्रकर्षे भवति। न हि कालादन्यस्यस्मादेकारात्? परो घ#ओ भवति। "कालनाम्नः" इति परतः सप्तम्या अलुग्विधानात्()। "उच्चैस्तराम्()" इति॥
बाल-मनोरमा
द्वित्रिभ्यां ष मूध्र्नः ८४५, ५।४।११

द्वित्रिभ्यां। "षे"ति लुप्तप्रथमाकं पदम्। द्विमूद्र्ध इति। द्वौ मूर्धानौ यस्येति विग्रहः। त्रिमूर्ध इति। त्रयो मूर्धानो यस्येति विग्रहः। समासान्तः। "नस्तद्धिते" इति टिलोपः। षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम्।

नेतुरिति। नक्षत्रे विद्यमानो यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरब्वक्तव्य इत्यर्थः। नेता-नायकः। मृगो नेतेति। मृगः=मृगशीर्षम्। रात्रिनेता चन्द्रः। तद्योगान्नक्षत्रस्यापि बोध्यम्। मृगनेत्रा इति। मृगनेतृशब्दादप्, ञकारस्य यण्, रेफः, टाप्। पुष्यनेत्रा इति। पुष्टो नेता यासामिति विग्रहः।

तत्त्व-बोधिनी
व्यवघादाम्बद्रव्यप्रकर्षे १५००, ५।४।११

किमेत्। ओमोरुकारो यदि नुटा त्यज्येत तर्हि पचतितरामित्यादौ "ह्यस्वानद्यापः"इति नुटि "पचतितरणा"मिति स्यात्,यस्येतिलोपस्य परेण नुटा बाधात्। सिद्धान्ते तु "निरनुबन्धकग्रहणे न सानुबन्धकस्ये"ति परिभाषया नुड्विधौ नाऽस्य ग्रहणम्।