पूर्वम्: ५।४।१३७
अनन्तरम्: ५।४।१३९
 
सूत्रम्
पादस्य लोपोऽहस्त्यादिभ्यः॥ ५।४।१३८
काशिका-वृत्तिः
पादस्य लोपो ऽहस्त्यादिभ्यः ५।४।१३८

उपमानातित्येव। उपमानातिहस्त्यादिवर्जितात् परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे। स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते। व्याघ्रस्य इव पादौ अस्य व्यघ्रपात्। संहपात्। अहस्त्यादिभ्यः इति किम्? हस्तिपादः। कटोलपादः। हस्तिन्। कटोल। गण्डोल। गण्डोलक। महिला। दासी। गणिका। कुसूल।
लघु-सिद्धान्त-कौमुदी
पादस्य लोपोऽहस्त्यादिभ्यः ९७७, ५।४।१३८

हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम्? हस्तिपादः। कुसूलपादः॥
न्यासः
पादस्य लोपोऽहस्त्यादिभ्यः। , ५।४।१३८

"लोपो भवति समासान्तः" इति। किं पुनः स्यात्? समासान्तो न स्यात्()? "आदेः परस्य" १।१।५३ इत्यादेरेव स्यात्()। समासान्तत्वे सत्यन्तशब्दोऽयं नियतदेशमेवावयवमाचष्ट इत्यन्तस्यैव भवति। एवञ्च समासान्तो भवति यद्यन्तस्य भवति, नान्यथा। ननु च लोपस्याभावरूपबत्वात्? समन्सान्तो नोपपद्यते? इत्याह--"स्थानिद्वारेण" इत्यादि। स्थानिनोऽकारस्य समासान्तत्वादुपचारेण लोपोऽपि समासान्त उच्यत इति दर्शयति॥
बाल-मनोरमा
पादस्य लोपोऽहस्त्यादिभ्यः ८६७, ५।४।१३८

पादस्य लोपः। "अहस्त्यादिभ्य" इति च्छेदः। उपमानादित्यनुवर्तते। तदाह--हस्त्यादिवर्जितादिति। "आदेः परस्ये"त्यप्रवृत्तये आह--समासान्तो बहुव्रीहाविति। शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम्। अन्यताऽनुक्तसमासान्तत्वात्कप्प्रसज्येत। नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह--स्थानीति। व्याघ्रस्येवेति। फलितार्थकथनमिदम्। व्याघ्रपादाविव पादावस्येति विग्रहः। "सप्तम्युपमानपूर्वपदस्ये"ति समासः।

तत्त्व-बोधिनी
पादस्य लोपोऽहस्त्यादिभ्यः ७५५, ५।४।१३८

पादस्य। यद्ययं लोपः समासान्तो न स्यात् "आदेः परस्ये"त्यादेः स्यात्। शैषैकः कप्()च प्रसज्येत, "शेषद्विभाषा"इत्यत्र समासान्तापेक्षस्य शेषस्याश्रयणात्। अत आह--समासान्त इति। कथं पुनरभावो भावस्यावयवः स्यात्तत्राह--स्थानिद्वरेणेति। वचनबलादौपचारिकमवयवत्वं गृह्रत इति भावः।