पूर्वम्: ५।४।१७
अनन्तरम्: ५।४।१९
 
सूत्रम्
द्वित्रिचतुर्भ्यः सुच्॥ ५।४।१८
काशिका-वृत्तिः
द्वित्रिचतुर्भ्यः सुच् ५।४।१८

द्वि त्रि चतुरित्येतेभ्यः सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचो ऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चत्रुभुक्तम्। चकारः स्वरार्थः।
न्यासः
द्वित्रिचतुभ्र्यः सुच्?। , ५।४।१८

"चतुर्भुक्तम्()" इति। "रात्? सस्य" ८।२।२४ इति सकारलोपः। "चकारः स्वरार्थः" इति। प्रकृतेरन्तोदात्तत्वं यता स्यादिति। प्रत्ययस्य तु चकारः स्वरार्थं नोपपद्यते; तस्यानच्कत्वात्()। चतुःशब्दमेव प्रकृतं प्रति चकारस्य स्वरार्थत्वम्(), नोत्तरयोः; तयोरुदात्तत्वात्()। चतुःशब्दस्तु "चतेरुरन्()" (द।उ।८।७८) इत्युरन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥
बाल-मनोरमा
द्वित्रिचतुभ्र्यः सुच् , ५।४।१८

द्वित्रिचतुभ्र्यः। क्रियाभ्यावृत्तिगणने इत्येव। सुचि चकार इत्, उकार उच्चारणार्थः। पूर्ववदव्ययत्वम्। त्रिरिति। भुङ्क्ते" इत्यनुषज्यते। रादिति। चतुर्शब्दात्सुचि चतुर्()स् इति स्थिते "रात्सस्ये"ति सकारस्य लोपे चतुरिति रूपमित्यर्थः। अत्र "भुङ्क्ते" इत्यनुषज्यते।