पूर्वम्: ५।४।४१
अनन्तरम्: ५।४।४३
 
सूत्रम्
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्॥ ५।४।४२
काशिका-वृत्तिः
बह्वल्पार्थाच् छस्कारकादन्यतरस्याम् ५।४।४२

बह्वर्थातल्पार्थाच् च कारकाभिधायिनः शब्दात् शस्प्रत्ययो भवति अन्यतरस्याम्। विशेषानभिधानाच् च सर्वं कर्मादिकारकं गृह्यते। बहूनि ददाति बहुशो ददाति। अल्पं ददाति अल्पशो ददाति। बहुभिर् ददाति बहुशो ददाति। अल्पेन, अल्पशः। बहुभ्यः, बहुशः। अल्पाय, अल्पशः इत्येवम् आद्युदाहार्यम्। बह्वल्पार्थातिति किम्? गां ददाति। अश्वं ददाति। कारकातिति किम्? बहूनां स्वामी। अल्पानाम् स्वामी। अर्थग्रहणात् पर्यायेभ्यो ऽपि भवति। भूरिशो ददाति। स्तोकशो ददाति। बह्वल्पार्थान् मङ्गलामङ्गलवचनम्। यत्र मङ्गलं गम्यते तत्र अयं प्रत्यय इस्यते। बहुशो ददाति इति आभ्युदयिकेषु कर्मसु। अल्पशो ददाति इति अनिष्टेषु कर्मसु।
लघु-सिद्धान्त-कौमुदी
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् १२४४, ५।४।४२

बहूनि ददाति बहुशः। अल्पशः। (आद्यादिभ्यस्तसेरुपसंख्यानम्)। आदौ आदितः। मध्यतः। अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणोऽयम्। स्वरेण, स्वरतः। वर्णतः॥
न्यासः
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्?। , ५।४।४२

"इत्येवमादीनि" इति। आदिशब्देनापादानादिकरणविषयोदाहरणपरिभाषाग्रहणम्()--बहुभ्यो ह्रत्रागच्छति बहुश आगच्छतति, अल्पश आगच्छतीति। बहुशो निदधाति। "बहूनां स्वामी" इत्यत्र शेषस्य विवक्षितकारकाभिधायी बहुशब्दो न भवति। "अर्थग्रहणात्()" इत्यादि। असति ह्रर्थग्रहणे बहवल्पशब्दाभ्यामेव प्रत्ययः स्यात्?। त()स्मस्तु सति पर्यायेभ्योऽपि भवति। "बह्वल्पार्थात्()" इत्यादि। वह्वल्पार्थात्? प्रत्यये विधातव्ये मङ्गलवचटनं कत्र्तव्यम्()। भङ्गलवचनेन चेह व्याख्यानमुच्यते, व्याख्यायते तेनेति कृत्वा। कथं पुनः कारणस्य मङ्गलवचनं कत्र्तव्यम्()? इत्याह--"यत्र" इत्यादि। तत्रेदं व्याख्यानम्()--इह प्रशंसाग्रहणमनुवत्र्तते, प्रशंशायां प्रत्ययेन भवितव्यम्(), तच्छाभ्युदयिकेषु। बहुशो ददाति, नाल्पशः--एवं प्रशंसा भवति। इदमेव वचनमाभ्युदयिकेषु बहुशो लोके दानविषयेषु; अन्यता तेनास्य ग्रहणान्()वृत्तेर्मङ्गले गम्यमाने प्रत्ययो न भवतीति। अथ वा--इहापीतिकरणानुवृत्तेर्मङगल एव भवति, नान्यत्रेति। शसः सकारस्येत्संज्ञा न भवति; प्रयोजनाभावात्()॥
बाल-मनोरमा
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् , ५।४।४२

बह्वल्पार्थादिति। वार्तिकमिदम्। मह्गलाऽमङ्गलेगम्ये एवायं शसित्यर्थः। बहूनि ददात्यनिष्टेष्विति। भयादिनिमित्तेष्वित्यर्थः। अल्पं ददात्याभ्युदयिकेष्विति। अभ्युदयः=श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः। आभ्युदयिकेषु बहुदानम्, अनिष्टेषु अल्पदानं च मङ्गलम्। तद्विपरीतदानं त्वमङ्गलमिति भावः। अर्थग्रहणाद्भूरिशो ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम्।

तत्त्व-बोधिनी
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् १५७०, ५।४।४२

बह्वल्पार्थात्। बहूनीति। "बहुभ्यो ददाति बहुशः" "अल्पेब्योऽल्पश"थिय्द्यपि बोध्यम्। बह्वल्पार्थात्किम्()। गां ददाति। अ()आं ददाति। अर्थग्रहणात्पर्यायेभ्यो विशेषभ्यश्च। भूरिशो ददाति। त्रिशः। कारकात्किम्()। बहूनां स्वामी, अल्पानां स्वामी।

बह्वल्पार्थामन्ङ्ग[लाऽभङ्ग]लवचनम्। मङ्गलवचनमिति। "बहुशो ददात्याभ्युदयिकेषु कर्मसु। अल्पशो ददात्यनिष्टेषु"। आभ्युदयिकेषु बहुदानम्, अनिष्टेष्वल्पदानं च मङ्गलम्। तद्वैपरीत्येव दानं तु मङ्गसं न भवतीत्याशयेनाह---नेहेति। अनिष्टेष्विति। भयादिनिमित्तेषु दानेषु। आभ्युदयिकेष्विति। अभ्युदयप्रयोजनेऽग्न्याधेयादिषु। मूलपुस्तकेषु "मङ्गलाऽमङ्गलवचन"मिति प्रायेण पठ()ते, तत्राऽमङ्गलग्रहणं वृथेत्याहुः। प्रायिकं चैतन्मङ्गलवचनमन्यत्रापि हि दृश्यते "अपेतापोढमुक्तपतितापात्रस्तैरल्पशः" इति। कारकत्वं तु समसनक्रियां प्रति पञ्चम्याः कर्मत्वात्दभिधायकत्वाच्चाल्पशब्दस्य। तथा च व्याचक्षते---अल्पा पञ्चमी समस्यत इति। "आचार्येणे"ति शेषः।