पूर्वम्: ५।४।५०
अनन्तरम्: ५।४।५२
 
सूत्रम्
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च॥ ५।४।५१
काशिका-वृत्तिः
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश् च ५।४।५१

अरुःप्रभ्र्तीनाम् अन्तस्य लोपो भवति च्विश्च प्रत्ययः। अत्र सर्वविशेषणसम्बन्धात् पूर्वेण एव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः। अनरुररुः सम्पद्यते, तं करोति अरूकरोति। अरूभवति। अरूस्यात्। मनस् उन्मनीकरोति। उन्मनीभवति। उन्मनीस्यात्। चक्षुस् उच्चक्षूकरोति। उच्चक्षूभवति। उच्चक्षूस्यात्। चेतस् विचेतीकरोति। विचेतीभवति। विचेतीस्यात्। रहस् विरहीकरोति। विरहीभवति। विरहीस्यात्। रजस् विरजीकरोति। विरजीभवति। विरजीस्यात्।
न्यासः
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च। , ५।४।५१

"अत्र विशेषणसम्बन्धात्()" इत्यादि। अभूततद्भावादीनि सर्वाणि विशेषणानीह पूर्वसूत्रादनुवत्र्तन्ते। तस्मात्? सर्वविशेषणसम्बन्धात्? पूर्वेणैवारुःप्रभृतिभ्यः प्रत्ययः सिद्ध इति नासौ दिधीयते, लोपमात्रं तु न प्राप्नोति। अतस्तदर्थ वचनम्()। यदि पुनरनेनैव प्रत्ययविधिः स्यातद्(), दुर्मनीकरोतीत्यादौ प्रत्ययो न स्यात्(); ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात्? (व्या।प। ८९) पूर्वेण तु तदन्तादपि भवति; तत्र ग्रहणवत्प्रातिपदिकस्याभावात्()। "उन्मनीकरोति" इत्येवमादौ बहुव्रीहेः प्रत्ययः॥
बाल-मनोरमा
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च , ५।४।५१

अरुर्मनश्चक्षुः।एषामिति। अरुस्, मनस्, चक्षुस्, चेतस्, रहस्, रजस् इत्येतेषामित्यर्थः। पूर्वेणैव प्रत्ययसिद्धेस्तत्संनियोगेन अन्त्यलोप इह विधीयते। अरूकरोतीति। अनरुः अरुः सम्पद्यते, तत्करोतीत्यर्थः। प्रकृतेरन्त्यलोपे उकारस्य "च्वौ चे"ति दीर्घः। उन्मनीकरोतीति। अनुन्मना उन्मनाः संपद्यते तं करोतीत्यर्थः। च्वौ अन्त्यलोपः, ईत्त्वं च। उच्चक्षूकरोतीति। अनुच्चक्षुरुच्चक्षुः सम्पद्यते, तं करोतीत्यर्थः। च्वौ अन्त्यलोपः, दीर्घश्च। उच्चेतीकरोतीति। अनुञ्चेता उच्चेताः सम्पद्यते, तं करोतीत्यर्थः। च्वौ अन्त्यलोपः, ईत्त्वं च। विरहीकरोतीति। रहो विजनप्रदेशः, विशिष्टं रहो विरहः। अविरहो विरहः संपद्यते तत्करोतीत्यर्थः। च्वौ अन्त्यलोपः, ईत्त्वं च। विरजीकरोतीति। अविरजा विरजाः सम्पद्यते तं करोतीत्यर्थः। अन्त्यलोपे अस्य च्वौ ईत्त्वं च।

तत्त्व-बोधिनी
अरुर्मनश्चक्षु श्चेतोरहोरजसां लोपश्च १५७८, ५।४।५१

अरुर्मनः। च्विश्चेति। पूर्वेण सिद्धस्यापि च्वेरयमनुवादः। लोपस्तु तत्संनियोगशिष्टत्वार्थः।