पूर्वम्: ५।४।७३
अनन्तरम्: ५।४।७५
 
सूत्रम्
ऋक्पूरप्धूःपथामानक्षे॥ ५।४।७४
काशिका-वृत्तिः
ऋक्पूरब्धूःपथाम् आनक्षे ५।४।७४

बहुव्रीहौ इति न स्वर्यते। सामान्येन विधानम्। ऋक् पुरप् धुर् पथिनित्येवम् अन्तानां समासानाम् अकारः प्रत्ययो भवति समासान्तो ऽक्षे न। सामर्थ्याद् धुर एतद् विशेषणम्, ऋगादीनां न भवति। अक्षेसम्बन्धिनी या धूः तदन्तस्य न भवति। अनृचः। बह्वृचः। अर्धर्चः। पुर् ललाटपुरम्। नान्दीपुरम्। अप् द्वीपम्। अन्तरीपम्। समीपम्। धुर् राजधुरा। महाधुरः। पथिन् स्थलप्थः। जलपथः। अनृचो अनक्षे इति किम्? अक्षस्य धूः अक्षधूः। दृढधूः अक्षः। अनृचो माणवको ज्ञेजो, बः वृचश्चरणाख्यायाम्। माणवकः। बह्वृचो ब्राह्मणः। अनृक्कं साम, बह्वृक्कं सूक्तम् इत्यत्र न भवति।
लघु-सिद्धान्त-कौमुदी
ऋक्पूरब्धूःपथामानक्षे ९९६, ५।४।७४

अ अनक्षे इतिच्छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवोऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथः। रम्यपथो देशः॥
न्यासः
ऋक्पूरब्धूःपथामानक्षे। , ५।४।७४

"सामथ्र्यात्()" इति। यस्य येन सम्बन्धोऽस्ति तत्? तस्य विशेषणं भवति; धुर #एव चाक्षेम सम्बन्धोऽस्ति, नेतरेषाम्()। अतः समथ्र्यात्? तस्यैवानक्ष इत्येतद्विशेषणं विज्ञायते, न ऋगादीनाम्()। "अनक्षे" इति च षष्ठ()र्थे सप्तमी सुब्ब्यत्ययेन। अत एवाह--"अनक्षसम्बन्धिनी" इत्यादि। अक्षेण सम्बन्धोऽवयवावयविलक्षणः, सोऽस्या अस्तीत्यक्षस्मबन्धिनी। सा धूर्यस्यां तस्या न भवति। अथैवं कस्मान्न विज्ञायते--अक्षेऽभिधेये न भवतीति? अशक्यमेवं विज्ञातुम्(); एवं हि विज्ञायमान इहैव प्रतिषेधः स्यात्()--दृढा धूरस्याक्षस्य दृढधूरक्ष इति। इह तु न स्यात्()--अक्षस्य धूरक्षधूरिति, एवं तर्हि विज्ञायते--अक्षे पूर्वपदे न भवतीति? एवमप्यशक्यं विज्ञातुम्(); तथा ह्रेवं विज्ञायमान इहैव प्रतिषेधः स्यात्()--अक्षधूरिति। इह तु न स्यात्()--दृढधूरक्ष इति। यथा वृत्ति कारेम व्याख्यातं तथोभत्रापि भवति। अक्षसम्बन्धिनी या धूः, तदन्तत्वात्? समासस्य। "अद्र्धर्चः" इति। ऋचोद्र्धमिति "अर्धं नपुंसकम्()" २।२।२ इति समासः। "अद्र्धर्चा पुंसि च २।४।३१ इति नपुंसकलिङ्गता च। "बहवृचः" इति। बहव ऋचोऽस्य सन्तीति बहुव्रीहिः। "ललाटपुरम्()" इति। षष्ठीतत्पुरुषोऽयम्()। अथ वा--ललाटं पूरिवेति "उपमितं व्याघ्रादिभिः" २।१।५५ इत्यादिना समासः। "नान्दीपुरम्()" इति। षष्ठीसमासः। यद्यप्यकारान्तेन पुरशब्देन समासे कृत एतत्? सिध्यति, तथापि व्यञ्जनान्तेन पूःशब्देन यदि समासः क्रियते, तदा व्यञ्जनान्तस्य श्रवणं मा भूदित्येवमर्थं पुरो ग्रहणम्()। "द्वीपम्()" इति "अन्तरीपम्()" इति "समीपम्()" इति। द्विर्गता आपोऽस्मिन्(), अन्तर्गता आपोऽस्मिन्(), सङ्गता आपोस्मिन्निति बहुव्रीहिः। "द्व्यन्तरुपसर्गेभ्योऽप ईत्()"६।३।९६ इतीत्त्वम्()। "राजधूरा" इति। षष्ठीसमासः। "महाधुरः" इति। बहुव्रीहिः, "आन्महतः" ६।३।४५ इत्यात्त्वम्(), "स्त्रियाः पुंवत्()" ६।३।३३ इत्यादिना पुंवद्भावः। "स्थलपथः, जलपथः" इति षष्ठीसमासः। सप्तमीति (२।१।४०) योगविभागात्? सपतमीसमासो वा। ऋगन्तस्य यो बहुव्रीहिर्नञ्पूर्वपदः, तस्य माणवक एवाभिधेये प्रत्यय इष्यते, यो बहुपूर्वपदो बहुव्रीहिरृगन्तः, तस्य चरणा ख्यायामेव इष्यत इति दर्शयति--"अनृचो माणवको ज्ञेयः" इत्यादि। एतच्च "पथो विभाषा" ५।४।७२ इत्यतो विभाषाग्रहानुवृत्तेव्र्यवस्थितविभाषात्वं चोपलभ्यमिति वेदितव्यम्()। "अनृक्कः, बहवृक्कः" इति। "शेषाद्विभाषा" ५।४।१५४ इति कप। "चोः कुः" ८।२।३० इति कुत्वम्()--चकारस्य ककारः॥
बाल-मनोरमा
ऋक्पूरब्धूःपथामाऽनक्षे ९२७, ५।४।७४

अथ सर्वसमाससाधारमसमासान्ता निरूप्यते--ऋक्पूरब्धूः। छेद इति। सूत्रे "अ" इति लुप्तप्रथमान्तनिर्देश इति भावः। "समासान्ता" इत्यधिकृतम्। ऋगादिभिः समासो विशेष्यते। तदन्तविधिः। तदाह--ऋगाद्यन्तस्येति। ऋक्, पुर्, अप्, धुर्, पथिन्-एतदन्तस्येत्यर्थः। अप्रत्यय इति। अकारात्मकप्रत्यय इत्यर्थः। अक्षे या धूरिति। अक्षसंबन्धिनी या धूरित्यर्थः। सूत्रे संबन्धिनोऽधिकरणत्वविक्षया अनक्षे इति सप्तमी। "अनक्षे" इति च धुर्शब्देनैव संबध्यते, अन्यैरसंभवादिति भावः। अर्धर्च इति। ऋचोऽर्धमिति विग्रहः। "अर्धं नपुंसक"मिति समासः। अकारः समासान्तः। "अर्धर्चाः पुंसि चे"ति पुंस्त्वम्। अनृचबह्वृचावध्येतर्येवेति। अविद्यमाना ऋचो यस्येति विग्रहः। बहव ऋचो यस्येति बह्वृचः-ऋक्छाखीत्युदाहरणम्। "अध्येतर्येवे"ति नियमस्य प्रयोजनमाह--नेहेति। अनृक्सामेति। अविद्यमाना ऋचो यस्मिन्निति विग्रहः। ऋच्यनध्यूढं प्रजापतेह्र्मदयं साम। बह्वृक्सूक्तमिति। बहवो ऋचो यस्मिन्निति विग्रहः। अथ पुर्शब्दान्तस्योदाहरति--विष्णोरिति। ननु पुर्शब्दस्य स्त्रीत्वा "परवल्लिङ्ग"मिति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आत--क्लीबत्व#ं लोकादिति। अथाऽप्शब्दान्तस्योदाहरति--विमलापं सर इति। विमला आपो यस्मिन्निति विग्रहः।

तत्त्व-बोधिनी
ऋक्पूरब्धूःपथामाऽनक्षे ८०३, ५।४।७४

ऋक्पूर। "अ"इति लुप्तप्रथमैकवचनान्तं, "समासान्ताः"इति त्वधिक्रियते, तदाह---समासस्याप्रत्ययोऽन्तावयव इति। "अनक्षे"इत्येतत्सामान्यतः श्रुतमपि धुरैव संबध्यते, सामथ्र्यात्, नान्यैरित्याशयेन व्याचष्टे--अक्षे या धूरिति। तदन्तस्य तु नेति। सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया सप्तमी। तेन अक्षसंबन्धिनी या धूस्तदन्तस्य नेत्यर्थः। यद्यत्र "अक्षे पूर्वपदे ने"ति व्याख्यायेत, तर्हि "दृढधूरक्षः"इत्यत्र निषेधो न स्यात्। यदि तु "अक्षे समासार्थेने"ति व्याख्यायेत, तदा "अक्षधू"रित्यत्र न स्यात्। तस्मादुभयसंग्रहार्थमुक्तव्याख्यानमेव ज्यायः। अद्र्धर्च इति। "अर्द्धं नपुंसक"मिति समासः। "अर्धर्चाः पुंसि चे"ति पुंस्त्वम्। अनृगित्यादि। अनुक्तसमासान्तत्वात् "शेषाद्विभाषे"ति कप्प्रत्यये "अनृच्कं" "बह्वृच्कं"मित्यपि बोध्यम्। विष्णुपुरमिति। यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापि "विष्णुपू"रित्यनिष्टवारणाय सूत्रे पूग्र्रहणम्।