एङः इति वर्तते, अति इति च। एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थः आरम्भः।
"एङ उत्तरयोः" इत्यादि।
एङ उत्तरौ यौ ङसिङसौ तयोः सम्बन्ध्यवयवो योऽत्? तस्मिन्? परत इत्यर्थः। "अग्नेरागच्छति" इति। "घेङिति"
७।३।१११ इति गुणः। अथ कस्मादत्र यथासंख्यं न भवति, एङावपि हि द्वौ,
ङसिङ्सावपि द्वावेवेति प्राप्नोति? नैष दोषः, न ह्रत्र ङसिङसोः परतः कार्यं विधीयते,
किं तर्हि? तत्सम्बन्धिन इति, स चैक एव।
अथापि सम्बन्धिभेदेन भेदः स्यात्()? एवमप्यदोषः, चकारोऽत्र समुच्चायर्थः क्रियते। एवं च समुच्चयो भवति यद्यकैकस्यैङो ङसिङसोः प्रत्येकमपि परतः परपूर्वत्वं भवति; नान्यथा। "ईदग्नेः सोमरुणयोः"
६।३।२६, "ओरावश्यके"
३।१।१२५ इति च निर्देशस्तदभावं ज्ञापयति। लक्षणव्यभिचारचिह्नेन वा। अल्पाच्तरस्य ङसः परनिपातेन यथासंख्याभावोऽवसीयते॥
ङसिङसोश्च। "एङः पदान्ता"दित्यत "एङ" इति, "अती"ति चानुवर्तते। "अमि पूर्व" इत्यतः "पूर्व" इत्यनुवर्तते। "एकः पूर्वपरयोः" इत्यधिकृतं, तदाह--एङो ङसिङसोरिति। हरेरिति। पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठ()एकवचनस्य च रूपमेतत्। यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते। "यथासङ्ख्यमनुदेशः समाना, स्वरितेने"ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम्। "अच्च घेः" "उपसर्गे घोः किः" इत्यादिनिर्देशाच्च। हर्योरिति। षष्ठीद्विवचने यणादेशे रूपम्। हरीणामिति। "ह्यस्वनद्यापः" इति नुट्। "नामी"ति दीर्घः। "अट्कुप्वा"ङिति णत्वम्।
ङसिङसोश्च। इह ङसिङसौ द्वौ, एङावपि द्वौ, तयोर्यथासङ्ख्यं न, अस्वरितत्वात्। अल्पाच्यतरस्य पूर्वनिपाताऽकरणाल्लिङ्गात्, "अच्च घेः" "उपसर्गे घोः कि"रिति निर्देशाच्च।