पूर्वम्: ६।१।११९
अनन्तरम्: ६।१।१२१
 
सूत्रम्
इन्द्रे च (नित्यम्)॥ ६।१।१२०
काशिका-वृत्तिः
इन्द्रे च नित्यम् ६।१।१२४

इन्द्रशब्दस्थे अचि परतो गोर्नित्यम् अवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः।
लघु-सिद्धान्त-कौमुदी
इन्द्रे च ४८, ६।१।१२०

गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
न्यासः
इन्द्रे च नित्यम्?। , ६।१।१२०

"इन्द्रशब्दस्थे" इति। य इन्द्रशब्दे तिष्ठति स इन्दरशब्दस्यः, स पुनर्य इन्द्रशब्दस्थावयवः स वेदितव्यः। पूर्वेण विकल्पः सिद्ध एव, तत्रारम्भसामव्र्यादेव नित्ये विधाव()स्मल्लब्धे नित्यग्रहणमुत्तरार्थम्()॥
बाल-मनोरमा
इन्द्रे च २५२, ६।१।१२०

इन्द्रे च। "गोः", "अवङ्", "अची"त्यनुवर्तते। तदाह--गोरिति। विकल्पनिवृत्त्यर्थः। गवेन्द्र इति। गो-इन्द्र इति स्थिते अवङ्। आद्गुणः।

*****समाप्तम्*****

अथ अदादिप्रकरणम्।

तत्त्व-बोधिनी
इन्द्रे च २२३, ६।१।१२०

इन्द्रे च। आरम्भसामथ्र्यान्नित्यमिदम्। इदं च सूत्रंत्यक्तुं शक्यम्। अन्यार्थं स्वीकृतेन व्यवस्थितविभाषाश्रयणेनैवेष्टसिद्धेरित्याहुः। प्लुतुप्रगृह्राः--" इति सूत्रादव्यवहितपूर्वः "अथ प्रकृतिभावः" इति पाठो मूलपुस्तकेषु प्रायेण दृश्यते, स चाऽपपाठ पव। "सर्वत्र विभाषा गोः;" इति प्रकृतिभावस्य प्रागेवारब्धत्वादित्येके। अन्ये तु "अवङ् स्फोटायनस्य" इन्द्रे चे"ति सूत्रद्वयं प्रकृतिभावप्रकरणे पठितमपि तद्बहिर्भूतमित्यवश्यं वक्तव्यं, ताभ्यां तदविधानात्। न च "अवङ्"सूत्रस्य प्रकृतिभावापवादत्वेनोत्सर्गापवादरूपत्वात्तत्प्रकरणस्थत्वं सूपपादमित्यवङादेशानुवृत्त्यर्थं तदनन्तरं पठितस्य "इन्द्रे चे"ति सूत्रस्यापीति वाच्यम् ; पूर्वरूपापवादत्वस्यापि "अवङ्"सूत्रस्य सुवचत्वात्। एतत्प्रकरणपाठस्य गोशब्दानुवृत्त्यर्थतया चरितार्थत्वात्। एवं च स्वलेख्यप्रकृतिभावप्रकरणाद्बहिस्तत्सूत्रद्वयं लिखितं, तदनुकूलत्वेन "सर्वत्र विषाषे"ति सूत्रमपि तत्रैवेति स्थितस्य गतिर्बोध्येत्याहुः।

अथ तत्त्वबोधिन्याम् अदादिप्रकरणम्।