पूर्वम्: ६।१।१२१
अनन्तरम्: ६।१।१२३
 
सूत्रम्
आङोऽनुनासिकश्छन्दसि (बहुलम्)॥ ६।१।१२२
काशिका-वृत्तिः
आङो ऽनुनासिकश् छन्दसि ६।१।१२६

आङो ऽचि परतः संहितायां छन्दसि विषये ऽनुनासिकादेशो भवति, स च प्रकृत्या भवति। अभ्र औं अपः। गभीर औं उग्रपुत्रे जिघांसतः। केचिदाङो ऽनुनासिकश् छन्दसि बहुलम् इत्यधीयते। तेन इह न भवति, इन्द्रो बाहुभ्यामातरत्। आ अतरत्।
न्यासः
आङोऽनुनासिकश्छन्दसि। , ६।१।१२२

"आङः" इति। ङिद्विशिष्टस्याकरस्योपादानम्()। ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः"--तस्यैव ग्रहणं यथा स्यात्(), वाक्यस्मरणयोर्यः तस्य मा भूदित्येवमर्थम्()। असति प्रकृतिभावे विहितेऽप्याङोऽनुनासिकत्वे स्यादेव स्वरसग्धिः। अनुनासिकविधानं त्वादेशस्य सानुनासिकत्वार्थं स्यादित्येतन्मनसि कृत्वाऽ‌ऽह--"न च प्रकृत्या भवति" इति। "आतरत्()" इति। तरतेराङपूर्वाल्लङ्, अडागमः, अटा सह सवर्णदीर्घत्वम्()॥